________________
C+
अब
बनसूत्रम् ॥२२॥
+
+
SHESARASWA43425%
है| पश्य-त्येव देकुलात्ततः ॥ विद्यासिद्धः कुम्भपाणिः, पुरुषः कोऽपि निर्ययौ ॥ ६ ॥ सोऽपि तं कुम्भमभ्या -वादीदतिमनोरमम् ॥
कुरु वासगृहं शय्या-सनभार्यादिसंयुतम् ॥ ७ ॥ तेनाथ कामकुम्भेन, तदुक्ते निर्मितेऽखिले ॥ तत्र स्थित्वाऽभुक्त भोगान् , सोज नाभिः सहाद्भुतान् ॥ ८ ॥ सञ्जहार प्रभाते च, तत्सर्वमपि सत्वरम् ॥ तत्स्वरूपं बदखिलं, दुःस्थमयों ददर्श सः ॥९॥ दध्यौ चैवं | निष्फलेन, किमायासेन मेऽमुना ॥ एनमेवाथ सेविष्ये, कामितार्थसुरद्रुमम् ॥ १०॥ ध्यात्वेति सेवनं तस्य, कुर्वन् विनयपूर्वकम् ॥ | स तन्मनो वशीचक्रे, विनयाद्वा न किं भवेत् ॥ ११॥ ततः सिद्धपुमानूचे, ब्रूहि किं ते समीहितम् ? विना समीहां सेवा हि, न | केनापि विधीयते ।।१२।। स स्माहाहं जन्मतोऽपि, दारिद्येणास्मि विद्वतः ॥ न चाप्नोमि धनं किश्चित् , प्रयत्नैर्विविधैरपि ॥१३॥ | दौस्थ्यस्यैवापनोदाय, बम्भ्रमीमि महीतले ॥ स्निग्धं मित्रमिवोपान्तं, न तु तन्मे विमुश्चति ॥ १४ ॥ त्वाञ्चोपकारिणं प्रेक्ष्य, हृद्य विद्यासुधाम्बुदम् ॥ दारिद्यग्रीष्मसन्ताप-समुत्तप्तः श्रितोस्म्यहम् ॥ १५॥ तत् प्रसद्य महाभाग !, तथा कुरु यथा मम ॥ त्वद्वत्सु| खोपभोगः स्या-त्सन्तो ह्याश्रितवत्सलाः ॥१६॥ तच्छुत्वा ध्यातवान् सिद्ध-पुमानेवमहो ! अयम् ॥ दुरवस्थापराभूतो, जायते भृशमातुरः ॥ १७॥ व्रतं सत्पुरुषाणाञ्च, दीनादीनामुपक्रिया ॥ तदस्योपकृति कृत्वा, करोमि सफल जनुः ॥ १८ ॥ ध्यात्वेत्यूचे सिद्धविद्यः, किमु विद्यां ददामि ते ॥ विद्याभिमंत्रितं कुम्भ-मथवेति निगद्यताम् ॥ १९ ॥ भोगाभोगोत्सुकः सोथ, विद्यासाधनमीरुकः ॥ विद्याधिवासितं कुम्न-मेव देहीत्युवाच तम् ॥ २०॥ विद्यासिद्धस्ततस्तस्मै, सद्यस्तं कलशं ददौ ॥ दक्षः कक्षीकृते ह्यर्थे, विलम्ब नावलम्बते ॥ २१ ॥ दुःस्थमयोपि तं कुम्भ-मादायामोदमेदुरः ॥ ययौ तूर्ण निजग्राम-मिति दध्यौ च चेतसि ॥ २२ ॥ देशान्तर प्राप्तया किं, पीनयापि तया श्रिया ॥ यां विद्विषो न पश्यन्ति, या च मित्रैर्न भुज्यते ॥ २३ ॥ इत्यसौ घटमाहात्म्यात् , कृत्वा
॥२२॥
+CAUCROC+C