________________
॥ अथ षष्ठाध्ययनम् ॥
उचराध्य
अध्य
..
यनपत्रम ॥२१॥
RECARRAHASTRA
॥ अर्हन् । उक्तं पश्चमाध्ययनमथक्षुल्लनियन्थीयाख्यं षष्ठमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने मरणविभक्तिरुक्ता तत्र चान्ते पण्डितमरणमुक्तं तच्च विद्याचरणसम्पन्नानां निर्ग्रन्थानामेव स्यात् इति तत्स्वरूपमनेनोच्यते इत्यनेन सम्बन्धेनायातस्यास्यादौ | नियुक्तिकारोक्तं पञ्च निर्ग्रन्थस्वरूपं वृहट्टीकातो ज्ञेयमत्र तु सूत्रमेवानुस्रियते, तच्चेदं__ मूलम्-जावंतविजा पुरिसा, सवे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा, संसारंमि अणंतए ॥१॥
व्याख्या-यावन्तो यत्परिमाणाः, न विद्यते विद्या तत्त्वज्ञानात्मिका येषां ते अविद्याः, पुरुषा नराः, सर्वे ते दुःखस्य सम्भव उत्पत्तिर्येषु ते दुःखसम्भवाः । ईदृशः सन्तो लुप्यन्ते दारिद्यादिभिर्वाध्यन्ते, बहुशोऽनेकशः मृढा हिताहितविवेकं प्रत्यसमर्थाः, रा संसारे भवे अनन्तके अन्तरहिते, अनेन निर्ग्रन्थस्वरूपज्ञापनार्थं तद्विपक्ष उक्त इति भावनीयम् । अत्र चायं कथानकसम्प्रदायस्तथाहि
एकः कोपि पुमान् दौःस्थ्यो-पढतो भाग्यवर्जितः ॥ कृष्यादि कुर्वन्नपि नो, तत्फलं किश्चिदासदत् । १॥ ततो गृहाद्विनिर्गत्य, द्रविणोपार्जनाय सः॥ उपायान् विविधान् कुर्वन् , भूयो बभ्राम भूतले ॥२॥ न तु किश्चिदपि प्राप, धनमुद्यमवानपि ॥ अप्युद्यतैः श्वभिरिव, न श्रीः पुण्यं विनाप्यते ॥ ३॥ निष्फलभ्रमणेनाथ, निर्विण्णः स गृहं प्रति ॥ न्यवर्तिष्ट विनालाभ-मुद्यमो हि श्लथो भवेत् ॥ ४ ॥ स चान्यदा कचिदामे, निशि वासार्थमागतः ।। तस्थौ देवकुले स्थाना-वाप्तिस्तत्रैव तादृशाम् ॥ ५ ॥ तत्र तत्रस्थिते
॥२१॥
॥२१॥