SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ उचराज्यधनसूत्रम् ॥१८॥ ॥ १८॥ | यिनः, अनुत्तरेष्वपि तच्छक्तियुक्तत्वात्, अधुनोपपन्नशंकाशास्तत्कालोत्पन्नदेवकल्पाः, अनुत्तरेषु हि वर्णद्युत्यादि यावदायुस्तुल्यमेव स्यात्, 'ज्योति' भूयांसः प्रभूता ये अर्चिर्मालिनः सूर्यास्तद्वत् भा येषां ते तथा । न त्वेकस्यार्कस्य तादृशी सुतिरस्तीति सूत्रार्थः ॥ २७ ॥ उपसंहर्तुमाह मूलम् - तानि ठाणाणि गच्छंति, सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे वा, जे संतिपरिनिबुआ॥२८॥ व्याख्या - तान्युक्तरूपाणि स्थानानि आवासान् गच्छन्ति शिक्षित्वाऽभ्यस्य, संयमं सप्तदशभेदं तपो द्वादशभेदं भिक्षादा वा गृहस्था वा प्राकृतत्वाद्वचनव्यत्ययः, ये शान्त्या उपशमेन परिनिर्वृताः विध्यातकषायानलाः शान्तिपरिनिर्वृता भवन्तीति शेष इति सूत्रार्थः ॥ २८ ॥ एतच्च विज्ञाय मरणेपि महात्मानो यथाभूता भवन्ति तथाह - मूलम् - तेसिं सुच्चा सपुजाणं, संजयाणं वुसीमओ । न संतंसंति मरणंते, सीलवंता बहुस्सुआ ॥ २९ ॥ व्याख्या-तेषामनन्तरोक्तखरूपाणां यतीनां श्रुत्वा आकर्ण्य पूर्वोक्तस्थानावाप्तिमिति शेषः । कीदृशानामित्याह - सतामिन्द्रादीनां पूज्याः सत्पूज्यास्तेषां संयतानां संयमवतां 'बुसीमओत्ति' प्राग्वत्, न संत्रस्यन्ति नोद्विजन्ते मरणान्ते उपस्थिते शीलवन्तश्चारित्रवन्तो बहुश्रुता आगमवचः श्रवणशुद्धधियः, अयं भावः - अज्ञातधार्मिकगत योऽनुपार्जितधर्माणश्च मरणादुद्विजन्ते, यथा वाऽस्माभिर्गन्तव्यमिति, न तु निश्चितसद्गतिगमना उपार्जितधर्माणः । यदाहुः- “ चरितो निरुपक्लिष्टो, धर्मो हि मयेति निर्वृतः स्वस्थः मरणादपि २ वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्ते शम् ॥ अध्य०५ ॥१८॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy