SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ उच्च राष्यबनराधम ॥१७॥ ॥१७॥ पण्डित मरणमुक्तमिति सूत्रार्थः ॥ २४ ॥ अथ प्रस्तुतं पण्डितमरणमेव फलोपदर्शनद्वारेणाह - मूलम् - अह जे सुंवुडे भिक्खू, दुण्हमन्नयरे सिआ । सव्वदुक्खप्पहीणे वा, देवेवावि महिढिए ॥ २५॥ व्याख्या- अथेत्युपदर्शने, यः कश्चित्संवृतः पिहितसमग्राश्रवद्वारो मिक्षुर्भावसाधुः स च द्वयोरन्यतर एकतरः स्यात्, ययोर्द्वयो| रेकतरः स्यात्तावाह - सर्वाणि यानि दुःखानि क्षुत्पिपासाभीष्टवियोगानिष्टसंयोगादीनि तैः प्रकर्षेण पुनरनुत्पादलक्षणेन हीनो रहितः | सर्वदुःखप्रहीणो वा स्यादिति सम्बन्धः, स च सिद्ध एव देवो वा स्यात्, अपिः सम्भावने, सम्भवति हि संहननादिवैक्लव्यान्मुतेरप्राप्तौ देवोऽपि स्यादिति, कीदृक् ? महर्द्धिक इति सूत्रार्थः ॥ २५ ॥ यत्रासौ देवो भवति तत्र कीदृशा आवासाः कीदृशाच देवा इत्याहमूलम् - उत्तराई विमोहाई, जुइमंताणुपुव्वसो । समाइण्णाइं जक्खेहिं, आवासाईं जसंसिण्णो ॥ २६ ॥ व्याख्या– उत्तरा उपरिवत्तिनोऽनुत्तरविमानाख्या विमोहा इव विमोहा अल्पवेदादिमोहनीयत्वात् द्युतिमन्तो दीप्तिमन्तः, 'अणुपुवसोत्ति' आनुपूर्व्या क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्मादिषु हि अनुत्तरविमानान्तेषु पूर्वापूर्वापेक्षया प्रकर्षवन्त्येव | विमोहत्वादीनि विशेषणानि । तथा समाकीर्णा व्याप्ता यक्षैर्देवैरावासाः, प्राकृतत्वान्नपुंसकलिङ्गत्वं सर्वत्र । देवास्तु तत्र यशस्विनः श्लाघान्विताः ।। २६ ।। तथा मूलम् - दीहाउआ इड्ढिमंता, समिद्धा कामरूविणो । अहुणोववन्नसंकासा, भुज्जो अचिमालिप्पभा ॥२७॥ व्याख्या - दीर्घायुषश्चिरञ्जीविनः, ऋद्धिमन्तो रत्नादिसम्पदुपेताः, 'समिद्धा' अतिदीप्ताः कामरूपिणः अभिलाषानुरूपरूपविधा अध्य० ५ ॥१७॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy