SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ अध्य०५ अथ यत्रतगृहस्थोऽपि दिवं याति तान्याहउचराध्य- मूलम्-आगारिसामाइअंगाई, सड्ढी काएण फासए । पोसहं दुहओ पक्खं, एगराइं न हावए ॥ २३ ॥ बनवम् व्याख्या-आगारिणो गृहिणः सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि निःशङ्कताकालाध्ययनाणुव्रतादिरूपाणि अगा॥१६॥ रिसामायिकाङ्गानि सड्ढीति' श्रद्धावान् कायेन उपलक्षणत्वान्मनसा वाचा च 'फासएत्ति' स्पृशति सेवते, तथा पौषधं आहारपौषधा४ादिकं 'दुहओ पक्खंति' प्राकृतत्वात् द्वयोरपि सितेतररूपयोः पक्षयोः चतुर्दशीपूर्णिमादितिथिषु 'एगराईति' अपेगम्यमानत्वादेकरात्रि| मपि केवलरात्रिसम्बन्धिनमपीत्यर्थः, उपलक्षणत्वाच्चेकदिनमपि न 'हवएत्ति' नन्हापयेत्र हानि प्रापयेत् , रात्रिग्रहणं तु दिवा व्याकुलतया कर्तुमशक्तौ रात्रावपि पौषधं कुर्यादिति सूचनार्थ । इह च सामायिकाङ्गत्वेनैव सिद्धे यदस्य भेदेनोपादानं तदादरख्यापनार्थमिति सूत्रार्थः ॥ २३ ॥ प्रस्तुतमेवार्थमुपसंहरन्नाहमूलम्-एवं सिक्खासमावण्णे, गिहवासे वि सुव्वए । मुच्चई छविपवाओ, गच्छे जक्खसलोगयं ॥ २४ ॥ व्याख्या-एकमुक्तन्यायेन शिक्षया व्रतात्मिकया समापनो युक्तः शिक्षासमापन्नः गृहवासेप्यास्तां दीक्षापर्याय इत्यपिशब्दार्थः, सुव्रतः शोभनव्रतो मुच्यते मुक्तिमाप्नोति, कुत इत्याह-'छविपवाओत्ति' छविस्त्वक, पर्वाणि जानुकूर्परादीनि, तयोः समाहरे छविपर्व ॥१६॥ तद्योगादौदारिकं देहमपि छविपर्व तस्मात्ततश्च गच्छेत् यायात् , यक्षा देवाः, समानो लोकोऽस्येति सलोकः तस्य भावः सलोकता सादृश्यमित्यर्थः, यक्षः सलोकता यक्षसलोकता तां । इयं च देवगतावेव स्थादित्यर्थादेवगतिं अनेन च पण्डितमरणावसरे प्रसङ्गादाल ॥१६॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy