________________
व्याख्या-'पिंडोलएवत्ति' वा-शब्दोऽपि शब्दार्थस्ततश्च पिण्डावलगकोऽपि स्वीयाहाराभावतो भैक्ष्यसेवकोपि, आस्तां गृहाउचराध्य
18 दिमान् , दुःशीलो नरकात्स्वकर्मोपस्थापितात् सीमन्तकादेन मुच्यते । तत्र चोदाहरणं तथाविधद्रमकः॥१५॥
तथाहि द्रमका कोपि, पुरे राजगृहेऽभवत् ॥ स च भिक्षाकृते नित्यं, बभ्राम सकले पुरे ॥१॥ वैभारगिरिपार्श्वस्थ-मुद्यानं स गतोन्यदा ॥ उद्यानिकार्थमायातं, जनं भुञ्जानमैक्षत ॥२॥ ततः स तत्र भिक्षार्थ, पर्यभ्राम्यन्मुहुर्मुहुः ॥ वदन्नुच्चैः स्वरं दीन४ वचांसि रसलोलुपः॥३॥ न तु कोपि ददौ तस्मै, भाग्यहीनाय किञ्चन । ततः प्रद्विष्टचित्तः स, दुष्टधीरित्यचिन्तयत् ॥ ४॥ | अमी हि कुक्षिम्भरयो, भक्षयन्त्यखिलं स्वयम् ॥ दीनाय न तु मे स्वल्प-मपि यच्छन्ति निर्दयाः॥५॥ तदमृनुपवैभारं, निविष्टान् दुष्टचेतसः ॥ कयाचिच्छिलया तूर्ण, चूर्णयामीति चिन्तयन् ॥ ६ ॥ वैभारगिरिमारुह्य, स क्रोधाभ्मातमानसः ॥ सर्वात्मना विलग्यैका, शिलां गुर्वीमचीचलत् ॥ ७॥ [युग्मम् ] तस्यां विलुण्ठितायां द्राक् स पृथक् स्थातुमक्षमः ॥ लुण्ठंस्तया समं तस्या, एवा | धस्तादुपाययौ ॥ ८॥ तस्तया क्षुण्णतनुः स रौद्रध्यानानुबन्धी द्रमको विपद्य ।। तमस्तमायां भुवि नारकत्वं, मध्ये प्रतिष्ठानमवाप | पापात् ॥९॥ इति द्रमककथा । ततो न भिक्षुत्वमात्रं कुगतिनिवारकं, ननु ? तर्हि तत्त्वतः किं सुगतिहेतुरित्याह-'भिक्खाए वत्ति'।
भिक्षामत्ति भुंक्ते इति भिक्षादः, वा विकल्पे, अनेन व्रती प्रोक्तः, गृहस्थो वा, सुष्टु शोभनं निरतिचारतया सम्यग्नावानुगतया च
| व्रतं शीलपालनात्मकं यस्येति सुव्रतः, कामति गच्छति दिवं देवलोकं । मुख्यतया व्रतपालनस्य मुक्तिहेतुत्वेऽपि दिवं क्रामतीति कथनं ॥१५॥
| जघन्यतोऽपि देवलोकावाप्तिरितः स्यादिति सूचनार्थम् , अनेन च व्रतपालनमेव तत्वतः सुगतिहेतुरिति प्रोक्तमिति सूत्रार्थः ॥ २२ ॥
। पिण्डं परिदत्तानासमवलगते सेवते इति पिलावलगः स एव पिण्डावलगकः ।
॥१५॥