SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ अब संयमोत्तरा न स्युः? किञ्च अगारस्थेभ्यश्च सर्वेभ्य इति, अनुमतिवर्जसर्वोत्तमदेशविरतिं प्राप्तेभ्योऽपि साधवः संयमोचराः सम्पूर्णसं | यमान्वितत्वासेषां । अत्र च वृद्धवादो यथा-कोपि श्राद्धः साधुं पप्रच्छ, श्राद्धसाध्वोः किमन्तरमिति ? साधुरूचे मेरुसर्षपान्तरं । तदाउचराध्य काकुलीभूतः पुनः पप्रच्छ, कुलिङ्गिश्राद्धयोः किमन्तरं ? मुनिः स्माह तदेव, ततः प्रसादमाससादेति । उक्तश्च-"देसिक्कदेसविरया, बनरत्रम् समणाणं सावगा सुविहिआणं ।। तेसिं परपासंडा, सइमं पि कलं न अग्धंति ॥१॥" तदेवं मिथूणामपि तेषां चारित्राभावात् ॥१४॥ | पण्डितमरणाभाव एवेति सूत्रार्थः ॥ २० ॥ ननु कुतीर्थिकभिक्षवोपि नानालिङ्गधरा एव, तत्कथं तेभ्यो गृहस्थाः संयमोत्तराः इति ||* सन्देहापोहायाह। मूलम्-चीराजिणं नगिणिणं, जडी संघाडि मुंडिणं । एआई पि न ताइंति, दुःसीलं परिआगयं ॥ २१॥ ___ व्याख्या-चीराणि च चीवराणि, अजिनं च मृगादिचर्म. चीराजिनं । 'नगिणिणंति' आर्षत्वान्नान्यं, 'जडित्ति' भावप्रधान| त्वानिर्देशस्य जटित्वं, संघाटी वनसंहतिजनिता कंथेत्यर्थः, मुंडत्वं, एतान्यपि निजनिजप्रक्रियाकल्पितानि व्रतिलिङ्गान्यपि, किं? पुनर्गार्हस्थ्यमित्यपिशब्दार्थः, न नैव त्रायन्ते नरकादिदुर्गतः, कमित्याह-दुःशीलं दुराचारं 'परिआगयंति' पर्यायागतं प्रव्रज्यापर्याय प्राप्तं, आपत्वाच्च याकारस्यैकस्य लोपः। न हि कषायकलुषचेतसोऽतिकष्टहेतुरपि बहिर्वकवृत्तिर्नरकादिकुगतिनिवारणायालं! ततो न | लिङ्गधारणं वैशिष्टयहेतुरिति सूत्रार्थः ॥ २१ ॥ ननु ? कथं गृहायभावेपि तेषां दुर्गतिरिति चेदुच्यते॥१४॥ मूलम्-पिंडोलएव्व दुस्सीले, नरगाओ न मुच्चई। भिक्खाए वा गिहत्थे वा, सुव्वए कमई दिवं ॥२२॥ ॐॐॐॐ
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy