________________
उचराध्यवनसूत्रम् ॥१३॥
॥१३॥
तथा न विद्यते आघातः पीडात्मक स्तादृशयतनया परप्राणिनामात्मनश्च विधिवत्संलिखितशरीरतया यस्मिंस्तदनाघातं, केषां ? पुनरिदमित्याह-संगतानां चारित्रिणां 'बुसीमओत्ति' आर्षत्वाद्वश्यवन्तः वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषां एतच्चार्थात्पण्डितमरणमेव, ततोयमर्थः यथा ह्येतत्संयतानां वश्यवतां विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनामिति सूत्रार्थः ॥ १८ ॥ किञ्च -
मूलम् - इमं सव्वेसु भिक्खुसु, न इमं सव्वेसु गारिसु । नाणासीला अगारत्था, विसमसीला य भिक्खुणो ॥ १९ ॥
व्याख्या - नेदं पण्डितमरणं 'सव्वेंसु भिक्खुसुत्ति' सूत्रत्वात्सर्वेषां भिक्षूणां परदत्तोपजीविनां व्रतिनामिति यावत्, किन्तु | केषाञ्चिदेवोपचितपुण्यानां भावमिक्षूणां । तथा च तद्गृहस्थानां दूरापास्तमेव, अत एवाह - नेदं सर्वेषामगारिणां सर्वचारित्रिणामेव तत्सम्भवात, सर्वचारित्रपरिणामे तु सति तेषामपि तत्त्वतो यतित्वात् । कुत एवं १ यतो नानाशीला अनेकविधत्रता अगारस्था गृह|स्था अनेकविधभङ्गकोपेतत्वादेशविरतेः । विषमशीलाश्च विसदृशशीलाच मिक्षवो, न हि सर्वे जिनमतप्रतिपन्ना अप्यनिदानिनोऽविकलचारित्रिणो वा म्रियन्ते! तहिं क तीर्थान्तरीयाः ? इति सूत्रार्थः ॥ १९ ॥ विषमशीलीतामेव मिक्षूणां समर्थयितुमाह
मूलम् - संति एहिं भिक्खूहिं, गारत्था संजमुत्तरा । गारत्थेहि अ सव्वेहिं. साहवो संजमुतरा ॥ २० ॥
व्याख्या-सन्ति विद्यन्ते एकेभ्यः कुप्रवचनभिक्षुभ्यः 'गारत्थत्ति' सूत्रत्वादगारस्थाः संयमेन देशविरत्यात्मकेन उत्तराः प्रधानाः संयमोत्तराः, कुतीर्थिकमिक्षवो हि जीवास्तिक्यादिरहिताः सर्वथाऽचारित्रिणश्चेति कथं तेभ्यः सम्यग्दृशो देशचारित्रिणो गृहिणः
अध्य०५
॥१३॥