SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ उचराध्य ॥१२॥ ॥१२॥ रागादिव्यग्रचित्तः संत्रस्यति विभतीत्यर्थः । कुतः १ भयान्नरकगतिगमन साध्वसात्, अनेन तस्याकामत्वमुक्तं, स च तथापि मरणान मुच्यत इत्याह- अकामस्यानिच्छतो मरणमकाममरणं तेन म्रियते, सूत्रे चार्षत्वात् द्वितीया, नरकञ्श्चासौ गच्छति, तत्र चासौ शोच| तीति शेषः । क इव कीदृशः सन् ? धूर्त्त इव द्यूतकार इव, वाशब्दस्योपमार्थत्वात्कलिना एकेन प्रक्रमादायेन जितः, यथा ह्ययमेकेन दायेन जितः सन्नात्मानं शोचति, तथायमप्यतितुच्छैरतुच्छ संक्लेशफलैर्मर्त्यभोगैर्दिव्यसौख्यं हारितो दुःखी सन् शोचतीति सूत्रार्थः ॥ १६ ॥ प्रस्तुतमर्थ निगमयितुमाह मूलम् - एअं अकाममरणं, बालाणं, तु पवेइअं । एत्तो सकाममरणं पंडिआणं सुणेह मे ॥ १७ ॥ व्याख्या- एतदनन्तरमेव दुष्कृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तदकाममरणं बालानामेव, 'तु' शब्दस्य एवार्थत्वात् प्रवेदितं प्ररूपितं तीर्थकरादिभिरिति शेषः । पण्डित मरणप्रस्तावनामाह-'एत्तोति' इतोऽकाममरणादनुसकाममरणं पण्डितानां सम्बन्धि शृणुता कर्णयत मे मम वदत इति शेष इति सूत्रार्थः ॥ १७ ॥ यथा प्रतिज्ञातमें वाह मूलम-मरणं पिसपुष्णाणं, जहा मे तमणुस्सुअं । विष्वसन्नमणाघायं, संजयाणं वुसीमओ ॥ १८ ॥ व्याख्या-'मरणमपि आस्तां जीवितमित्यपिशब्दार्थः, भवतीति गम्यते सपुण्यानां पुण्यवतां किं सर्वमपि ? नेत्याहयथा येन प्रकारेण मे मम कथयत इति शेषः । तदिति पूर्वसूत्रोपात्तम् अनुश्रुतमवधारितं भवद्भिरिति गम्यं, कीदृशं ? मरणमित्याह - 'विप्पसन्नंति' विविधैर्भावनादिभिः प्रकारैः प्रसन्ना मरणेप्यनाकुलचेतसो विप्रसन्नास्तत्सम्बन्धि मरणपि विप्रसन्नं, अध्य० ५ દેશી
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy