________________
उचराध्य
॥१०॥
मूलम्-तओ पुट्टो आयंकेण, गिलाणो परितप्पइ । पभीओ परलोगस्स, कम्माणुप्पेहि अप्पणो ॥१९॥ 5/31 ___ व्याख्या-'तओत्ति' स एवैकः ततो वा दण्डारम्भाधुपार्जितमलादनुस्पृष्टोऽभिभूतः, केन ? आतङ्केन आशुघातिना शूलविशूचिकादिरोगेण ग्लानो मन्दः परितप्यते, बहिरन्तश्च खिद्यते । प्रभीतः प्रकर्षेण त्रस्तः 'परलोगस्सत्ति' परलोकात् , आर्षत्वाप्पञ्चम्यर्थे षष्ठी, कुत एवं ? यतः कर्म क्रियां अनुप्रेक्षते इत्येवंशीलः कर्मानुप्रेक्षी, कस्य ? आत्मनः, स हि हिंसादिकां स्वचेष्टां स्मरन्मया न किश्चिच्छुभमाचारितं ! किन्तु सदैवाजरामरवच्चैष्टितमिति ध्यायन् मनसि रोगेण वपुषि च खिद्यते । भवति हि विषयलोलुपमनसोपि प्रायः प्राणत्यागसमयेऽनुतापः! यदुक्तं-" भवित्री भावानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् ॥ पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवकं पुंसां व्यथयति जराजीर्णवपुषाम्॥१॥" इति सूत्रार्थः।।११॥ एतदेव व्यक्तीकरोति| मूलम्-सुआ मे नरए ठाणा, असीलाणं च जा गई ॥ बालाणं कूरकम्माणं, पगाढा जत्थ वेअणा ॥१२॥
व्याख्या-श्रुतानि 'मे' मया नरके स्थानानि कुम्भीवैतरण्यसिपत्रवनादीनि तत्किमियतापि परितप्यत इत्याह-अशीलानां च दुराचाराणां या गतिर्नरकादिका सापि श्रुता, कीदृशीत्याह-बालानामज्ञानां क्रूरकर्मणां हिंसादिरौद्रकर्मकारिणां प्रगाढाः प्रकृष्टा यत्र यस्यां। गतौ वेदनाः शीतोष्णाद्याः। ततश्च ममाप्येवंविधानुष्ठानस्य तादृश्येव गतिरिति ध्यायन् परितप्यत इति सूत्रार्थः ।। १२॥ किश्चमूलम्-तत्थोववाइअं ठाणं, जहा मे तमणुस्सुअं॥ अहा कम्मेहि गच्छंतो, सो पच्छा परितप्पइ ॥१३॥
व्याख्या-तत्र नरकेषु उपपाते भवमोपपातिकं स्थानं स्थितिः यथा येन प्रकारेण स्यादिति शेषः, मे मया तदित्यनन्तरोक्तमनु
॥१०॥