________________
उचराध्यमनसत्रम् ॥९॥
| पिशुनः परदोषप्रकाशकः, शठो वेषविपर्यासादिना आत्मानमन्यथाभूतं दर्शयति. मण्डिकचौरवत् । अत एव च भुञ्जानः, सुरां मद्य, मांसं च, श्रेयोऽतिप्रशस्यमेतदिति मन्यते, उपलक्षणत्वाद्भाषते च । " न मांसभक्षणे दोषो, न मद्ये न च मैथुने” इत्यादीति
अध्य०५ सूत्रार्थः ॥ ९॥ तथा| मूलम्-कायसा वयसा मत्ते, वित्ते गिद्धे अ इत्थिसु । दुहओ मल संचिणइ, सिसुणागुब्व महि ॥१०॥||
व्याख्या-'कायसत्ति' सूत्रत्वात्कायेन, वचसा वचनेन, उपलक्षणत्वान्मनसा च, मत्तो दृप्तः । तत्र कायेन मत्तो मदान्धगजवत् द्र | यतस्ततः प्रवृत्तिमान्, यद्वा अहो! अहं बलवान् रूपवांश्चेति चिन्तयन् , वचसा खगणान् ख्यापयन् अहो! अहं सुस्वर इति वा ध्या
यन् , मनसा च मदामातचेताः, अहो ! अहमवधारणशक्तिमानिति वा मन्यमानो वित्ते धने गृद्धो गृद्धिमान् । चशब्दो भिन्नक्रमः, | ततः स्त्रीषु च गृद्धः । तत्र वित्ते गृद्ध इत्यनेन अदत्तादानग्रहणम् तद्भावभावित्वात्तस्य । तथा स्त्रीषु गृद्ध इत्यनेन तु मैथुनासेवित्व
मुक्तं, स हि स्त्रियः संसारसारभूता मन्यते वक्ति च । “सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः ॥ अमिन्नसारे संसारे, | सारं सारङ्गलोचना ॥१॥" तदासक्तश्च मैथुन सेवत एवेति । ततः स किं कुर्यादित्याह-'दुहओत्ति' द्विधा रागद्वेषाभ्यां मलमष्टप्रकार कर्म सचिनोति बध्नाति, क इव किमित्याह-शिशुनाग इवालस इव मृत्तिका, स हि स्निग्धतनुतया बहीरजोभिरगुण्ड्यते, ४ तामेव चाश्नातीति बहिरन्तश्च मलमुपचिनोति, ततश्च खरतरदिनकरकरनिकरस्पर्शतः शुष्यनिहैव क्लिश्यते । तथायमप्युपचितकर्मव- ।' शादिहैव जन्मनि क्लिश्यते विनश्यति चेति सूत्रार्थः ॥ १० ॥ इदमेव स्पष्टयति
॥९॥