________________
*
अध्या
उचराध्ययनपत्रम् ॥८॥
*****
दत्वा राजाङ्गजो जगौ ।। ७॥ मदुक्तमर्त्य नेत्रे त्वं, यदि स्फोटयितुं स्फुटम् ॥ प्रभूयसे तदा कार्य, समग्रं मम सिद्धयति ॥ ८ ॥ स प्रोचे चेत्स पुरुषः, पार्श्ववर्ती भवेन्मम ।। तदाहं भवतः कार्य, कर्तुं शक्नोमि नान्यथा ॥१॥ पशुपालं ततो नीत्वा, पुरमध्ये नृपात्मजः ॥ छन्नमस्थापयद्राज-मार्गासन्ने निकेतने ॥१०॥ दायादश्च निजं राज-पाटिकायै विनिर्गतम् ॥ तस्यादर्शयदस्याशु, नेत्रे
स्फोय्ये इति ब्रुवन् ॥११॥ सोपि चापविमुक्ताभ्यां, गोलिकाभ्यां तदीक्षणे ॥ पकस्फोटकवत्सद्यो-ऽस्फोटयत्स्वयमस्फुटः ॥ १२ ॥ का ततः सम्प्राप्तसाम्राराज्य-स्तमाहूय स भूपभूः ॥ पशुपालमुवाचैवं, ब्रूहि कं ते वरं ददे । ॥ १३ ॥ सोऽब्रवीद्यत्र तिष्ठामि, देहि याम |
तमेव मे ॥ ततस्तस्मै ददौ राजा, तदिष्टं तुष्टमानसः ॥ १४ ॥ सोऽथ ग्रामे तत्र तुम्बी-रिशंश्चावापयद्भहून् । निष्पन्नं च गुडं तुम्बैः, साकं स्वादनिदं जगौ ॥ १५ ॥ " अट्टमट्ट पि सिक्खिज्जा, सिक्खिन निरत्थयं ।। अट्टमट्टप्पसाएण, खजए गुडतुंबयं ॥१६॥" इत्थं गायन प्रतिदिन-ममन्दामोदमेदुरः॥ पशुपालः सुखं काल-मतिवाहयति स्म सः॥ १७॥ यथायमर्थेन विना वटस्य, पत्राणि विव्याध दृशौ तु सार्थम् ।। अन्योपि जन्तु वितनोति दण्डा-रम्भं तथा सार्थमनर्थकञ्च ॥ १८ ॥ इति पशुपालकथा ॥ दण्डमारभत इत्युक्तं, न चासो दण्डारम्भमात्रेणावतिष्ठते, किन्तु " भूअग्गामंति" भूताः प्राणिनस्तेषां ग्रामः समूहस्तं विविधैः प्रकाहिनस्ति व्यापादयति, अनेन-दण्डत्रयव्यापार उक्त इति सूत्रार्थः ॥ ८॥ किमयमेतावदेव करोतीत्याह
मूलम्--हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेअमेअंति मन्नइ ॥ ९॥ व्याख्या–हिंस्रो हिंसनशीलः सन् , बालो मूढो, मृषावादी मिथ्याभाषणशीलः, 'माइल्लेति' माया परवञ्चनोपायचिन्तनं, तद्वान्,
94646436433646436448
*
***
***
15॥८॥
॥८
॥
*