________________
अम
व्याख्या-जनेन लोकेन सार्द्ध सह भविष्यामि, अयं भावः, बहुजनो भोगासङ्गी तदहमपि तद्गति गमिष्यामि ! न हि इयान् उत्तराध्य
जनो मूढ इत्यमुना प्रकारेण बालोऽज्ञः प्रगल्भते धाष्टर्यमवलम्बते । अलीकवाचालतया स्वयं नष्टः परानपि नाशयति । न च किम्बकनपत्रम् ॥७॥
हुनापि जनेनोन्मार्गप्रस्थितेनेति चिन्तयति ! स चैवं कामभोगानुरागण क्लेशमिह परत्र च सम्प्रतिपद्यते प्रामोतीति सूत्रार्थः ॥७॥ | यथा चायं क्लेशं प्राप्नोति तथा प्राहहै मूलम्-तओ से दंडं समारभइ, तसेसु थावरेसु अ । अहाए व अणटाए, भूअग्गामं विहिंसइ ॥ ८॥
व्याख्या-ततः कामभोगानुरागात्स धृष्टो दण्डं मनोदण्डादिकं समारभते प्रवर्तयति, त्रसेषु द्वीन्द्रियादिषु, स्थावरेषु च पृथिव्यादिषु, अर्थाय वित्तप्राप्त्यादिकार्याय, अनर्थाय वा यदात्मनो मित्रादेर्वा नोपयुज्यते तस्मै निरर्थकमित्यर्थः । ननु निरर्थकमपि किं| कोपि दण्डमारभते ? आरभत एव तादृशपशुपालवत् ॥ ८॥
तथाहि-कोप्यजापालः, संनिवेशे क्वचिद्वसन् ।। अजाचारयितुं नित्य-मटतिस्म बनान्तरे ॥१॥ अजावजे च मध्याह्न, न्यग्रोधद्रुममाश्रिते ॥ तस्य छायामुपाश्रित्य सोप्युत्तानतयाऽस्वपीत्।।शलघुना धनुषा मुक्त-बंदरास्थिभिरन्वहम् ।। वटस्य तस्य पत्राणि. छिद्रयामास चासकृत् ॥ ३ ॥ क्रीडापरेण तेनैवं, प्रायो विद्धाखिलच्छदः॥ न्यग्रोधो निर्ममे नित्या-भ्यासाद्वा किं न साध्यते ? ॥४॥ तत्र चैकोन्यदा भ्राम्य-नागतो गोत्रिविद्रुतः॥ भूपभूस्तं तथाभूतं, बटं वीक्ष्य विसिमिये ! ॥ ५॥ केनैवमस्य पर्णानि, छिद्रितान्यखिलान्यपि ? ॥ इत्यपृच्छच्च तमजा-पालं भूपालनन्दनः॥ ६॥ सोऽवादीत्क्रीडयैतानि, छिद्रितानि मया सखे ! ॥ ततस्तस्मै बहु द्रव्यं,