SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ अध्य०५ उचराध्य मूलम्-जे गिद्धे कामभोएसु, एगे कूडाय गच्छइ । न मे दिट्टे परे लोए, चक्खुदिहा इमा रई ॥ ५॥ यनसूत्रम् ____ व्याख्या-य इत्व निर्दिष्टनामा गृद्धो लम्पटः, कामौ च शब्दरूपाख्यौ, भोगाश्च स्पर्शरसगन्धाहाः, कामभोगास्तेषु एकः कश्चि४ दतिक्रूरकर्मा कूटाय गच्छति । तत्र कूटं द्रव्यतो मृगादिबन्धनं, भावतो मिथ्याभाषणादि, तस्मै प्रवर्त्तते इत्यर्थः । स हि मांसादि-| लुब्धतया मृगादिबन्धनान्यारभते. मिथ्याभाषणादीनि च सेवते, प्रेरितश्च कैश्चिद्वक्ति । “न मे" इति, न मया दृष्टः परलोको भृतभाविजन्मात्मकः, कदाचिद्विषयरतिरपि तादृश्येव स्यादित्याह, चक्षुषा दृष्टा चक्षुष्टा, इयं रतिः कामजनिता चिंत्तग्रहात्तिः तत्कथं | दृष्ट त्यागादृष्टप्रार्थनयात्मानं वश्चये? इति तस्याशय इति सूत्रार्थः ॥ ५॥ पुनस्तदाशयमेव व्यञ्जयति मूलम्-हत्थागया इमे कामा, कालिआ जे अणागया । को जाणइ परे लोए, अस्थि वा नत्थि वा पुणो॥६॥3 ___व्याख्या-हस्तागताः स्वाधीनतया हस्तप्राप्ता इमे प्रत्यक्षाः कामाः शब्दाद्याः, कालिका अनिश्चितकालान्तरप्राप्तयो ये अनागता |भाविभवमत्काः, कथं पुनरमी अनिश्चितलाभाः ? इत्याह-क इत्यत्र पुनः शब्दस्य व्यवहितस्य सम्बन्धात्कः पुनर्जानाति ? नैव कश्चिदित्यर्थः । यथा परलोकोऽस्ति वा ? नास्ति वा ? ततः सन्दिग्धे परलोके कः प्रत्यक्षान् कामान् विहाय कालिककामार्थ यतेतेति तस्याभिप्राय इति सूत्रार्थः ॥ ६॥ कश्चित्तु ज्ञातपरलोकोपि कामांस्त्यक्त्तुमशक्त इदमाहमूलम्-जणेण सद्धि होक्खामि, इइ बाले पगब्भइ । कामभोगाणु राएणं, केसं संपडिवज्जइ ॥७॥ (२) चित्तप्रसत्तिः 443645464सल 45CACA4%AC ॥६॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy