________________
चारित्रवतां सह कामेनाभिलाषेण वर्तते इति सकामं सकाममिव सकाम, सकामत्वञ्च मरणागमे त्रासाभावात् , तदभावश्च तादृशां उत्तराध्य-मा
मरणस्योत्सवभृतत्वात् । यदाहुः-"सश्चिततपोधनानां, नित्यं व्रतनियमसंयमरतानाम्।। उत्सवभूतं मन्ये, मरणमनपराधवृत्तीनाम्॥१॥" बनस्त्रम
न तु परमार्थतस्तेषां मरणं प्रति सकामत्वं, मरणामिलापस्य निषिद्धत्वादुक्तं हि-" मा मा हु विचिंतेजा, जीवामि चिरं मरामि अ ॥५॥
| लहुंति । जइ इच्छसि तरिउं जे, संसारमहोअहिमपारं ॥ १॥" तु शब्दः पूर्वापेक्षया विशेषद्योतकः, तच्च मरणं " उक्कोसेणंति" उत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि संयमजीवितं दीर्घ स्पृहयेयुरपि, मुक्तिप्राप्तिरितः स्यादिति । केवलिनस्तु कृतकृत्यतया तदपि नेच्छन्ति आस्तां भवजीवितमिति तन्मरणस्यैवोत्कर्षेण सकामता । " सइंति" सकृदेकवारमेव भवेत् , जघन्येन तु शेषचारित्रिणां सप्ताष्ट वा वारान् स्यादित्याकृतमिति सूत्रार्थः॥ ३ ॥ अथानयोर्द्वयोः स्थानयोराचं स्थानमाहमूलम्-तस्थिमं पढमं ठाणं, महावीरेण देसि । कामगिद्धे जहा बाले, भिसं कूराइं कुव्बई ॥ ४॥
व्याख्या-तत्रेति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये इदं वक्ष्यमाणं प्रथम स्थानं महावीरेण चरमतीर्थकृता, | तत्रैको महाप्रज्ञ इति सामान्योक्तेरमिव्यक्तिनिमित्तमिदं " देसिअं" प्ररूपितं । किं तदित्याह-कामेषु इच्छा-मदनात्मकेषु गृद्धोऽमिकांक्षावान् कामगृद्धः, यथेत्युपदर्शनार्थ, बाल उक्तरूपो भृशमत्यर्थ क्रूराणि रौद्राणि प्राणिव्यपरोपणादीनि कर्माणीति शेषः, 'कुबइति" करोति शक्तौ सत्यां, अशक्तौ तु तन्दुलमत्स्यवन्मनसापि करोति । तानि च कृत्वा प्रक्रमादकाम एव म्रियते इति सूत्रार्थः ॥ ४ ॥ इदमेव स्पष्टयति
C+++++KA
RA