SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ वासभा ॥४॥ 18| मूलम्-अण्णवंसि महोहंसी, एगे तिण्णे दुरुत्तरे । तत्थ एगे महापण्णे, इमं पण्हमुदारे ॥ १॥ व्याख्या-अर्णव इवार्णवोऽदृष्टपरपारतया भव एव तस्मिन् , महानोघः प्रवाहो भवपरम्परात्मको यत्र स महौषः तस्मिन् , राएको रागद्वेषादिसहभावरहितः, तीर्ण इव तीर्ण तीरप्राप्त इत्यर्थः । दुरुत्तरे दुःखेनोत्तरितुं शक्ये भवार्णवे एव, तत्र सदेवमनुजामुरायां | पर्षदि, एकस्तीर्थकरनामकर्मोदयादनुत्तरावाप्तविभूतितया अद्वितीयः, स हि एकदा एक एव भवतीत्येवमुक्तं, महती निरावरणतया अपरिमाणा प्रज्ञा केवलज्ञानलक्षणा यस्य स तथा, इममनन्तरवक्ष्यमाणं प्रष्टव्यार्थरूपमुदाहरेदुदाहृतवानिति सूत्रार्थः।१॥ तथा हि मूलम्-सन्तिमे अ दुवेठाणा, अक्खाया मारणंतिआ । अकाममरणं चेव, सकाममरणं तहा ॥२॥ # व्याख्या-“ संतित्ति " वचनव्यत्ययात् स्तो विद्यते, इमे प्रत्यक्षे, चः पूरणे, द्वे द्विसंख्ये, तिष्ठन्त्यनयोजन्तब इति स्थाने, | आख्याते, प्राक्तनतीर्थकरैरपिकथिते । मरणमेवान्तो निजायुषः पर्यन्तो मरणान्तस्तस्मिन् भवे मरणान्तिके, ते एव नामतः प्रकाशयति, अकाममरणं, वक्ष्यमाणलक्षणं, चः समुच्चये, एवेति पूतों, सकाममरणं तथा वक्ष्यमाणमेवेति सूत्रार्थः ॥२॥ केषां पुनरिमे? कियद्वारं १ चेत्याह-- | मूलम्-बालांणं अकामं तु, मरणं असई भवे । पंडिआणं सकामं तु, उक्कोसेणं सई भवे ॥३॥ व्याख्या-बाला इव वालाः सदसद्विवेकविकलास्तेषां अकामं, 'तुति' तुशब्दस्य एवकारार्थत्वादकाममेव मरणमसकृद्वारंवारं | भवेत्ते हि विषयामिष्वङ्गान्मरणमनिच्छन्त एव म्रियन्ते, तत एव च भवाटवीमटन्तो भूयो भूयस्तदेव मरणमासादयन्ति, पण्डितानां * * * * B५॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy