SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 1264 उपराज्यबननाम् 434344%% स्यात् १४ भक्तं भोजनं तस्य, उपलक्षणत्वात् पानादेश्च परिज्ञा, इदं मया भूरिशो भुक्तमेतद्धेतु कञ्चावद्यमिति, ज्ञपरिज्ञया ज्ञात्वा |प्रत्याख्यानपरिज्ञया परित्यागो भक्तपरिज्ञा तया मरण भक्तपरिज्ञामरणम् १५ । इंग्यते प्रतिनियतदेश एव चेष्ट्यते यत्र तदिङ्गि| नीमरणं, इदश्च चतुर्विधाहारप्रत्याख्यानवतो नियमितप्रदेशे स्वयमेवोद्वर्तनादि कुर्वतो मुनेः स्यात् १६ । पादपो वृक्षः, उपशब्दः सादृश्ये, ततः पादपमुपगच्छति सादृश्येन प्राप्नोतीति पादपोपगमनं, अयं भावः-यथा पादपः पतितः समं विषममित्यचिन्तयनिथलमास्ते परप्रयोगातु कम्पते, तथायमपि भगवान् यदङ्गं प्रथमतो यत्र समे विषमे वा पतितं तत्तत्रैव स्थापयति न तु खतश्चलयतीति १७ । इदश्चान्त्यमरणत्रयं यद्यपि वैमानिकत्वमुक्तिलक्षणसमानफलदं, यदुक्तं-" एवं पञ्चक्खाणं, अणुपालेऊण सुविहिओ सम्म । वेमाणिओ य देवो. हविज्ज अहवा वि सिझेजा ॥१॥" तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेवोत्तरोत्तरं | सम्भवतीति विशेषात् प्रथमं कनीयः, द्वितीयं मध्यं, तृतीयं ज्येष्ठमिति ध्येयं । एषु च साध्वीनामाद्यमेव । यदाहुः-" सवावि अ & अजाओ, सल्वेवि अ पढमसंघयणवजा । सो वि देसविरया, पञ्चखाणेण उ मरंति ॥" अत्र हि प्रत्याख्यानशब्देन भक्तपरिव ४ | ज्ञेया । इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव स्थादित्याथिकानिषेधादेवावसीयते, पादपोपगमनं तु विशिष्टतमधृतिमतां वन|र्षभनाराचसंहननवतामेव स्यादुक्तञ्च-" पढमंमि अ संघयणे, वदंतो सेलकुड्डसामाणो। तेसिपि अ वुच्छेओ, चउदसपुबाण बुच्छेए ॥१॥" इत्युक्तः संक्षेपान्मरणविभागो विस्तरतस्तु बृहट्टीकातो ज्ञेयः । एषाश्च मध्ये "धीरेण वि मरिअवं, काउरिसेण वि अवस्स | मरिअई । तम्हा अवस्समरणे, वरं खु धीरत्तणे मरणं ॥१॥ संसाररंगमज्झे, धीवलसन्नद्धबद्धकच्छो उ । हतूण मोहमल्लं, हरामिद Ix॥३॥ आराहणपडागं ॥२॥" इत्यादि ध्यात्वा धीरः पण्डितमरणमुपादेयमन्यत्तु हेयमित्यलं प्रसङ्गेन। साम्प्रतं सूत्रमनुगम्यते । ॥३॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy