SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ उपराध्यन मनसूत्रम् ॥२॥ 4 मरणमावीचिमरणं १ । अवधिर्मर्यादा, ततश्च यानि नारकादिभवनिवन्धनतया आयुःकर्मदलिकान्यनुभूय म्रियते, मृतो वा यदि पुन-18|| स्तान्येवानुभूय मरिष्यति तदा तद्व्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणं, परिणामवैचित्र्यात् । एवं क्षेत्रादिष्वपि भावनीयम् २ । अन्तेभवमन्तिकं, अयं भावः-यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान् यनुभूय मरिष्यति तद्रव्यतोऽन्तिकमरणं, एवं क्षेत्रादिष्वपि वाच्यं ३ । “वलायमरणंति” वलतां संयमानिवर्तमानानां, दुश्चरं तपश्चरण कर्तुं व्रतं मोक्तुश्चाशक्नुवतां कथश्चिदस्माकमस्मान्मुक्तिरस्तु इति ध्यायतां यन्मरणं, एतच्च भनव्रतपरिणामानां मुनी|नामेव स्यात् ४ । वशेन इंद्रियविषयविषयेण परवशत्वेन आर्चा दीपशिखावलोकनाकुलपतङ्गवदाकुलिता वशास्तेिषां मरणं वशाचे | | मरणं ५ । अन्तः शल्यं लज्जादिवशादनालोचितदुराचाररूपं येषां ते अन्तःशल्यास्तेषां मरणमन्तःशल्यमरणं, इदश्चातीव दुष्टं यदाहुःएअं ससल्लमरणं, मरिऊण महाभए दुरंतंमि ॥ सुचिरं भमंति जीवा, दीहे संसारकंतारे ॥ ६॥" तब्भवति" यस्मिन् भवे साम्प्रतं प्राणी वर्तते तद्भवयोग्यमेवायुर्वद्धा पुनस्तत्क्षयेण यदा म्रियते तदा तद्भवमरणं, इदश्च संख्यातवर्षायुषां नृतिरश्चामेव, न त्वसंख्यातवपायुषां नृतिरश्चां, देवनारकाणां च, तेषां पुनरनन्तरं तद्भावाभावात् ७। बालानां मिथ्यादृशामविरतसम्यग्दृशां वा मरणं बालमरणम्। पण्डितानां सर्वविरतिमभ्युपगतानां मरणं पण्डित मरणम् ९ । मिश्राणां बालपण्डितानां देशविरतानां मरणं मिश्रमरणम् १० । छद्मस्थानां मतिश्रुतावधिमनःपर्यायज्ञानवतां वतिनां मरणं छद्मस्थमरणम् ११ । केवलिनां उत्पन्न केवलानां मरणं केवलिमरणम् १२॥ विहायसि आकाशे भवं वैहायसं, अयं भावः-ऊर्ध्व वृक्षशाखादावुद्धन्धनेन भृगुपातकूपपातशस्त्रादिभिर्वा मरणं वैहायसमरण १३ ।। गृधैरुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च स्पृष्टं स्पर्शनं यत्र तद्गृध्रस्पृष्टं, इदश्च मृतगजादिशवान्तः प्रविश्य गृध्राद्यैरात्मानं भक्षयतः CSKAR 45+% ॥२॥ * *
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy