SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ राज्य बनाम् ॥१॥ ॥ १ ॥ ॥ अर्हम् ॥ न्यायाम्भोनिधि श्रीमद्विजयानन्दसूरिभ्यो नमः । महोपाध्यायश्रीमद्भावविजयगणिविरचितवृत्त्या सहितं श्रीमदुत्तराध्ययन सूत्रम् । ॥ अथ पञ्चमाध्ययनम् ॥ भाग-२ उक्तं चतुर्थाध्ययनमथाकाममरणीयाख्यं पञ्चममारभ्यते । अस्य चायममिसम्बन्ध इहानन्तराध्ययने कांक्षेद्गुणान् यावच्छरीरभेद इति वदता मरणं यावदप्रमादो विधेय इत्युक्तं, मरणं च कति मेदं? किं हेयं? किञ्चोपादेयमित्यनेन सम्बन्धेनायातमिदं, ततोऽस्य प्रारम्भे मरणविभागो निर्युक्तिकृता प्रोक्तः संक्षेपात्तावदुच्यते । तथाहि--" आवीइ १ ओहि २ अंतिअ ३ बलायमरणं ४ वसमरणं च ५ अंतोस ६ तम्भव ७ बालं ८ तहपंडिअं ९ मीस १० ॥ १ ॥ छउमत्थमरण ११ केवलि १२ वेहायस १३ गिद्धपिट्ठमरणं व १४ ।। मरणं भत्तपरिण्णा १५ इंगिणि १६ पाओवगमणं च ॥ १७ ॥ २ ॥ " इति सप्तदशविधमरणम्, तत्र वीचिविच्छेदः अन्तरमित्यर्थस्तदभावादवीचि, नारकतिर्यग्नरामराणामुत्पत्तिसमयात्प्रभृतिनिज निजायुः कर्म दलिकानामनुसमयमनुभवनाद्विचटनं तत्प्रधानं अभ्य ॥१७
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy