________________
अभ्य०४ ।२९४॥
पत्वादीनि रूपाणि येषां ते अनेकरूपाः 'श्रमणं मुनि 'चरन्त'संयमाध्वनि गच्छन्तं, स्पृशन्ति स्वानि स्वानि इन्द्रियाणि गृह्यमाणतया
इति 'स्पर्शाः' शब्दादयस्ते 'स्पृशन्ति' गृह्यमाणतयैव सम्बध्नन्ति, "असमंजसं च"त्ति चशब्दस्वावधारणार्थत्वात् 'असमञ्जसमेव' यनसत्रम् । अननुकूलमेव यथास्यात्तथा न तेषु भिक्षुः "मणस"त्ति अपेर्गम्यत्वान्मनसापि, आस्तां वाचा कायेन च, 'प्रद्विष्यात' अयं भावः॥२९॥ अमनोज्ञशब्दादिषु कथश्चिदिन्द्रियविषयत्वमापन्नेषु 'अहो! एषामनिष्टत्वम् इति न चिन्तयेत,न वा तान् परिहरेदिति सूत्रार्थः॥११॥ तथा
मूलम्-मंदा य फासा बहुलोहणिजा, तहप्पगारेसु मणं न कुज्जा ॥
रक्खिज कोहं विणइज माणं, मायं न सेवे पयहिज लोहं ॥ १२ ॥ व्याख्या-मन्दयन्ति-विवेकिनमपि जनमज्ञतां नयन्तीति मन्दाः, 'चः' समुच्चये, 'स्पर्शाः' शब्दाद्याः, बहून् लोभयन्ति-मोह| यन्तीति बहुलोभनीयाः, अनेन तेषामाक्षेपत्वमुक्तं, "तहप्पगारेसु"त्ति अपेर्गम्यमानत्वात् 'तथाप्रकारेवपि' बहुलोभनीयेष्वपि मृदस्पर्शमधुररसादिषु 'मनः' चित्तं 'न कुर्यात्' न निवेशयेत् , एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स च कथं स्यात ? इत्याह-रक्षेत्' निवारयेत्क्रोधं, 'विनयेत्' अपयेत् 'मानम्' अहङ्कार, 'मायां' परवञ्चनबुद्धिरूपां'न सेवेत' न कुर्यात, "पयहिज"त्ति प्रजह्यात् 'लोभम्' अभिष्वङ्गरूपं, तथा च क्रोधमानयोढेषात्मकत्वान्मायालोभयोश्च रागरूपत्वात्क्रोधादिनिग्रह एब रागद्वेष परिहार इति सूत्रार्थः ॥ १२ ॥ अथ यदुक्तं "तम्हा समुठाय पहाय कामे" इत्यादि, तत्कदाचिच्चरकादिष्वपि स्यादिति शङ्कापोहार्थमाह
FICIALASAROKAR