________________
उचराध्यबनसूत्रम्
॥२९३॥
अलक्ष्मीवत्ततो गेहा - प्रेमदां तां प्रमद्वराम् || निष्काश्यान्यां निःस्वकन्यां सोऽवृणोद्बहुभिर्धनैः ।। ५ ।। तद्भन्धूंश्चैवमूचे चे-दात्मानं रक्षयत्यसौ । तदा परिणयाम्येना-मन्यथा तु न सर्वथा ॥ ६ ॥ तदाकर्ण्य कनी ज्ञात - परमार्था महामतिः । रक्षिष्याम्यहमात्मानमित्यूचे स्वजनान्निजान् ॥ ७ ॥ ततस्तां परिणीयागात्पुनर्देशान्तरे वणिक् ॥ नाङ्गभूषादिकं चक्रे, प्रमादं तद्वेशा तु सा ॥ ८ ॥ आलापयन्ती मधुरैरालापैः श्रवणामृतैः || दासकर्मकरादींश्च प्रायुक्त स्वस्वकर्मणि ॥ ९ ॥ प्रातराशादिकं तेषां भोजनं समये ददौ । अकालपरिहीणं तद्वेतनं च यथोदितम् ॥ १० ॥ एवमावर्जिताः सर्वे तथा कर्मकरादयः ॥ सोद्यमं स्वस्वकर्माणि चक्रिरे प्रतिवासरम् ॥ ११ ॥ इत्थं प्रमादादात्मानं, रक्षन्ती सा मनस्विनी || नैव व्यनाशयत्किञ्चिदपि कृत्यं धनं तथा ॥ १२ ॥ गृहेशोथ गृहे प्राप्त - स्तामुदीक्ष्याप्रमादिनीम् ॥ सर्वस्वस्वामिनीं चक्रे, मुदितस्तद्गुणैर्भृशम् ॥ १३ ॥ इत्यप्रमादो महते गुणाय भवेदिहैवापगुणाय चान्यः । तस्मात्परत्रापि भवेद्गुणाया-प्रमाद एवेति चराप्रमत्तः ॥ १४ ॥ इति वणिकपत्नीकथेति सूत्रार्थः ॥ १० ॥ प्रमादमूलं च रागद्वेषौ इति सोपायं तस्यागमाह -
मूलम् - मुहुं मुहुं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं ॥
फासा फुसंती असमंजसं च न तेसु भिक्खू मणसा पउस्से ॥ ११ ॥
व्याख्या- 'मुहुर्मुहु:' वारं वारं मोहोपकारिणो गुणा 'मोहगुणाः' शब्दादयस्तान् 'जयन्तम्' अभिभवन्तं अनेकानि कार्कश्य कुरू१ नारीम् | २ स्त्री ।
अय•४ ||।।२९३॥