________________
उत्तराध्य
यनसूत्रम् ।।२९५ ।।
463
मूलम् - जे संख्या तुच्छ परप्पवाई, ते पिज्जदोसाणुगया परज्झा ।
एए अहम्मुत्ति दुर्गच्छमाणो, कंखे गुणे जाव सरीरभेओत्ति बेमि ॥ १३ ॥
व्याख्या—'ये' इत्यनिर्दिष्टस्वरूपाः 'संस्कृताः' कृत्रिमशुद्धिमन्तो न तु तत्त्ववेदिनः, अत एव 'तुच्छा' यद्दच्छाभिधायितया निःसाराः 'परप्रवादिनः' परतीर्थिकास्ते प्रेमद्वेषानुगता ज्ञेया इति शेषस्तथाहि सर्वथा सूवृते जिनवाक्येपि या कदाग्रहादप्रतीतिः सा न रागद्वेषाभ्यां विनेति भावनीयं, अत एव "परज्झ' ति देश्यत्वात् 'परवशाः 'ति रागद्वेषग्रहग्रस्ततया तद्वशाः, यदि ते ईदृशास्तर्हि | किं कार्यम् १ इत्याह - एते अधर्महेतुत्वादधर्माः 'इति' अमुनोल्लेखेन 'जुगुप्समाना' उन्मार्गगामिनोऽमी इति तत्स्वरूपमवधारयन् न तु निन्दन्, निन्दायाः सर्वत्र निषेधात् एवंविधश्व किं कुर्यात् । इत्याह- 'काङ्गेत्' अभिलषेद् 'गुणान्' ज्ञानदर्शनचारित्रादीन् जिना - गमोक्तान्, कियत्कालम् १ इत्याह- 'यावच्छरीरमेदः' देहात् पृथग्भावो मरणमिति यावत्, अनेन च जैनेज्वेव समुत्थानं कामप्रहाणं च तात्विकम्, अन्यत्र तु न तादृशमिति सूचितमिति सूत्रार्थः ॥ १३ ॥ इति ब्रवीमीति प्राग्वत् ॥
"
इति श्रीतपागच्छीय महोपाध्याय श्रीविम लहर्षगणिमहोपाध्याय श्री मुनिविमल गणिशिष्योपाध्यायश्रीभाव विजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्थाध्ययनं सम्पूर्णम् ॥ ४ ॥
46-44
%%%
अध्य०४ | ।।२९५ ।।