________________
अध्य०४
उत्तराध्य पनसूत्रम् ॥२९॥
॥
+
व्याख्या-'स:' इति यत्तदोनित्याभिसम्बन्धात् यः पूर्वमप्रमत्तो न स्यात् सोऽप्रमादात्मकं छन्दोनिरोधं "पुब्वमेवं"ति एवं * शब्दस्य उपमार्थत्वात् पूर्वमिव-अन्त्यकालात् प्रागिव 'न लभेत' न प्राप्नुयात् 'पश्चात' अन्त्यकालेऽपि, किञ्च "एसोवम"त्ति 'एषोपमा
|॥२९ इयं सम्प्रधारणा यद्वयं पश्चाद्धर्म करिष्याम इति 'शाश्वतवादिनां' निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यमानानां युज्येतापि, न तु जलबुबुदसमानायुषामन्येषां, तथा चायमुत्तरकालेपि छन्दोनिरोधमनाप्नुवन् 'विषीदति' कथमहमकृतधर्मकर्मा परत्र नरकादि वेदना | अनुभविष्यामि ? इति वैक्लव्यमनुभवति, 'शिथिले' आत्मप्रदेशान्मुञ्चत्यायुषि कालेन-मृत्युना उपनीते-ढौकिते शरीरस्य 'मेदे' सर्व ॥४ शाटात् पृथग्भावे तस्मादादित एवं प्रमादः परिहर्तव्य इति सूत्रार्थः॥९॥ कथं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभते इत्याहमूलम्-खिप्पं न सकेइ विवेगमेउं, तम्हा समूहाय पहाय कामे ॥
समेच्च लोगं समया महेसी, अप्पाणुरख्खी चरमप्पमत्तो ॥१०॥ व्याख्या-'क्षिप्रं' तत्क्षण एव न शक्नोति 'विवेक' द्रव्यतो बहिःसङ्गत्यागरूपं भावतः कषायापोहात्मकं, 'एतुं' गन्तुं कर्तुः || मित्यर्थः । कृतपरिकर्मा हि द्रुतं तत्परित्यागं कर्तुमलं, न तु तदन्यः, अत्रोदाहरणं, ब्राह्मणी| तथा को द्विजोऽन्यत्र, गत्वा देशे महामतिः॥ साङ्गान् वेदानधीत्यागा-स्कृतकृत्यो निजं गृहम् ॥ १॥ तस्मै चैकेन विप्रेण, | || सुरूपा स्वसुता ददे ॥ लोकाश्च दक्षिणाभिस्तं, वेदज्ञं धनिनं व्यधुः ॥२॥ ततः स स्त्रीकृते भूरीनलङ्कारानकारयत् । सापि तान् | परिधायास्थाद्-भूषितेच दिवानिशम् ॥३॥ तां चेत्युवाच तत्कान्तः, कान्ते ! पर्वोत्सवादिषु ॥ परिधेया: परिष्कारो, न तु प्रतिदिनं ।
१ अलकाराः ।
+
+
+