________________
अध्य २८६॥
श्रयत्वात् मला-औदारिकं शरीरं, तदपध्वंसी स्यात्तनिरपेक्षो भवेदिति भावः । ततो यथागमं प्रवर्त्तमानस्य यावल्लाभं देहधारणउत्तराध्य- मपि गुणायैवेति स्थितम् । इह च यावल्लाभ देहधारणे मण्डिकदस्युरुदाहरणम् , तत्रायं वृद्धवादः । तथाहियनस्त्रम्
वेण्णातटपुरे तुन्न-कारो मण्डिकसज्ञकः॥ परस्वहरणासक्तो-ऽभवत्मायानिकेतनम् ॥ १॥ स च मे व्रणमस्तीति, जानु- ॥२८६॥
बद्धपटच्चरः ।। राजमार्ग स्थितश्चक्रे, वासरे तुन्नकारताम् ॥ २॥ रात्रौ तु धनिधामभ्यो, धनं हृत्वा पुरादहिः॥ उद्यानस्थे भूमिगेहे, निचिक्षेपानुवासरम् ॥ ३ ॥ तत्र चासीत्स्वसा तस्य, कन्यका प्राप्तयौवना ।। कृपश्चैकोऽभवत्तत्रो-पकण्ठन्यस्तविष्टरः' ॥४॥ यं च प्रलोभ्यानयति, स चौरो भारवाहकम् ॥ तमुपावीविशत्कूप-पावस्थासने तत्स्वसा ॥ ५॥ पादशौचमिषात्पादे, धृत्वान्धौ न्यक्षिपच्च
तम् ॥ इत्थं तस्यात्यगात्कालो, मुष्णतः सकलं पुरम् ॥ ६॥ पिशाचमिव तं धतु, पुरारक्षोपि नाशकत् ॥ पूर्वोक्तो मूलदेवाहसास्तत्र चाभून्नृपस्तदा ॥ ७॥ तत उद्वेजितास्तेन, राक्षसेनेव दस्युना ॥ पौराः सर्वे मृलदेव-भूपमेवं व्यजिज्ञपन् ॥ ८॥ स्वामिन !
केनापि चौरेण, प्रत्यहं मुष्णता पुरम् ।। व्रतं विनापि निर्ग्रन्थो, निर्ममे निखिलो जनः ॥९॥ स च ग्रहीतुं केनापि, शक्यते न
महीपते ! ॥ पाहि पाहि प्रजा सर्वा-स्तस्मादमादुपद्रवात् ॥१०॥ सद्यस्तं निग्रहीष्यामी-त्युक्त्वा पौरान विसृज्य च ।। नृपश्चक्रेऽन्य४ मारक्षं, तं धतु सोऽपि नाशकत् ॥ ११ ॥ ततो निशि स्वयं श्यामां-शुकं प्रावृत्य भूपतिः॥ शङ्कास्थानेषु बभ्राम, न तु तस्करमैक्षत
॥ १२ ॥ श्रान्तो भूपस्ततो याव-सभायामस्वपीत्वचित् ॥ कोऽत्रास्तीति वदस्ताव-तत्रोपेयाय मण्डिकः॥१३॥ अहं कार्पटिको| ऽस्मीति, समयज्ञोऽवदन्नृपः ॥ एहि त्वामीश्वरं कुर्वे, मण्डिकोप्येवमब्रवीत् ॥१४॥ भुGिष्य इव भूजॉनि-स्ततो मण्डिकमन्वगात् ।।
१ विष्टरम् आसनम् । २ कूपे । ३ कृष्णवस्त्रम् । ४ दासः । ५ नृपः ।
44-455
%ACCOMGAE%