________________
जब
उपराज्य
बनवम् ॥२८॥
चराऽप्रमत्तः' यथा भारुण्डपक्षी अप्रमत्तचरति तथा त्वमपि प्रमादरहितवर-विहितानुष्ठानमासेवस्व, अन्यथा तु यथा भारुण्डपक्षिणः | पक्ष्यन्तरेण सह साधारणस्य मध्यवर्तिचरणव सम्भवात्स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः। उक्तन-"एकोदराः पृथग्ग्रीवा, अन्याः | न्यफलकाविणः॥ प्रमत्ता हि विनश्यन्ति, भारुण्डा इव पक्षिणः॥१॥" तथा तवापि प्रमाद्यतः संयमजीविताभ्रंश एवेति | सूत्रार्थः॥६॥ अमुमेवार्थ स्पष्टयनाहमूलम्-चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मन्नमाणो॥
लाभंतरे जीविअ वूहइत्ता, पच्छा परिणाय मलावधंसी ॥७॥ व्याख्या-'चरेत् गच्छेत् मुनिरिति शेषः, 'पदानि पादनिक्षेपरूपाणि 'परिशङ्कमानः' मा मे संयमविराधना भूयादिति परि| भावयन् तथा "ज किंचि"ति यत्किश्चिदुश्चिन्तिताद्यपि प्रमादपदं पाशमिव 'पाशं' बन्धहेतुतया 'मन्यमानः' जानानः, अयं भावः-12 यथा भारुण्डपक्षी पदानि परिशङ्कमानश्चरति यत्किश्चिद्दवरकाद्यपि पाशं मन्यमानस्तथा साधुरप्यप्रमत्तश्चरेत् । ननु यदि परिशङ्कमानश्वरेत्तर्हि पूर्वोक्तदोषपरिहारार्थमादित एवाऽनशनं कुरुतामित्याशङ्कानिरासार्थमाह-'लाभान्तरे' अपूर्वार्थप्राप्तिरूपे सति, अयं भावःयावद्विशिष्टविशिष्टतरसम्यग्दर्शनज्ञानाद्यवाप्तिरितः सम्भवति तावदिदं 'जीवितं' प्राणधारणरूपं 'बंहयित्वा' अकालोपक्रमरक्षणेन अन्नपानोपयोगादिभिश्च वृद्धिं नीत्वा 'पश्चात् लामविशेषप्राप्तेरुत्तरकालं 'परिज्ञाय' सर्वप्रकारैरवबुध्य-यथेदं नेदानीं प्राग्वद्गुणविशेषार्ज| नक्षम, न चातस्तादृशी निर्जरा, न च जरया व्याधिना चाभिभूतं तत्तथाविधधर्मध्यानं प्रति समर्थमिति बपरिक्षया ज्ञात्वा ततः प्रत्याख्यानपरिज्ञया भक्तं प्रत्याख्याय सर्वथा जीवितनिरपेठो भूत्वेति भावः, 'मलापध्वंसी' कर्ममलविनाशी स्वादिति शेषः, यद्वा मला