________________
अध्य०४
अस्या दुष्टनिया योगा-द्विद्यते मृत एव यः॥ विपक्षस्यापि तस्याथ, मारणं नो न युज्यते ॥ ३१२॥ तत्सर्वथा वराकं तं, जीवयिउचराध्य ध्यामि साम्प्रतम् ॥ तत्रैवं चिन्तयत्येव, सोऽप्यागादात्तपावकः ॥ ३१३ ॥ आगच्छता मयोद्योतो, दृष्टः कुत इहाधुना ॥ स्वकान्ता-STRam • पनपत्रम् मित्यपृच्छच्च, ततः सा कुटिलाब्रवीत् ॥ ३१४ ॥ स्वपाणिस्थज्वलदहे, प्रकाश इह सङ्कमात् ॥ दृष्टो भावीति तन्मेने, सरलः सोऽपि | ॥२८३॥
| सूनृतम् ॥ ३१५ ॥ अथ पत्न्याः प्रदायासिं, तस्मिन् धमति पावकम् ॥ कोशात्कृपाणमाकृष्य, घातं यावन्मुमोच सा ॥ ३१६ ॥ तावत्कृपारसाम्भोधि-रसौ भिल्लाधिपनुजः ॥ अपहस्तेन हस्त्वासिं, पातयामास भूतले ॥ ३१७ ॥ तच स्त्रीचरितं प्रोचे, सोदराणां स
दारुणम् ॥ ततो विरक्ताः सर्वेऽमी, व्रतं लातुमिहाययुः॥३१८॥ कुमारेदं तव प्रोक्त-मेषां वैराग्यकारणम् । तदाकातिसम्भ्रान्तः, लकुमारो ध्यातवानिति ॥ ३१९ ।। अहो! चरित्रं नारीणां, दारुणेभ्योऽपि दारुणम् ॥ अहो । तन्मनसां क्रुर-भावो व्याघ्रादि
जित्वरः ॥ ३२० ॥ ध्यातुं वक्तुं च यन्नैव, शक्यं धीधनवाग्मिभिः ॥ नार्यो रक्ता विरक्ताच, विचेष्टन्ते तदप्यहो! ॥ ३२१ ।। यः 8 प्रेम्णा मन्यते वामा:, स्वप्राणेभ्योऽपि वल्लभाः॥ अध्यत्रस्यन्ति तमपि, हन्तुं हेतुं विनापि ताः ॥ ३२२ ॥ अपि वारानिधेरापो, | गङ्गायाः सिकताकणाः ॥ मीयन्ते धीधनैः कैश्चि-नैव स्त्रीचरितं पुनः॥ ३२३ ॥ ध्यायन्त्यन्यद्वदन्त्यन्य-नार्यः कुर्वन्ति चेतरत् ॥
या मायाशाकिनीग्रस्ता-स्तासु रज्येत कः सुधीः? ॥ ३२४ ॥ तन्मां धिगस्तु निर्लज्जं, येन तस्याः कृते मया ॥ अहारि तद्यशो हारि, | कुलञ्च मलिनीकृतम् ॥३२५॥ यद्वा विवेको वैराग्यं पाण्डित्यं संयमो दमः॥ तावत्स्यात्प्राणिनां याव-न्न स्युस्ते रमणीवशाः॥३२६॥ संसारे च सुखं स्त्रीभ्य-स्ताश्चैवंविधचेष्टिताः॥ तन्मे संसारवासेन, कृतं दुःखौघदायिना ॥३२७॥ ध्यात्वेत्यादि गुरू
। सत्यम् । १ वहिम् । 3 बुद्धिधनवक्तृभिः । ४ समुद्रस्य जलम् । ५ मनोहरम् ।
DESIBABA