________________
अब०४
उत्तराध्यबनसूत्रम् ॥२८॥
| दुष्टेन भोगिना । उत्सले न्यपतत्पत्यु-र्दष्टाहमिति वादिनी ।। २६२ ॥ ततो मन्त्रादिभिर्याव-तां चिकित्सति भूपः ॥ तावत्सा गरेलव्याषा-न्मृञ्छिताऽभूदचेतना ॥ २६३ ॥ ततो विपनां तां ज्ञात्वा, कुमारो मोहमोहितः ।। रुरोद रोदसीकुक्षिम्भरिभिः परिदेवनः ॥ २६४ ॥ दध्यौ चैवं विनामुष्याः, कथं जीविष्यते मया ॥ वल्लभानां वियोगो हि, बहेरप्यतिरिच्यते ॥ २६५॥ | तदवश्यं प्रवेष्टव्यं, मया वह्नौ सहानया। स्वल्पा हि सह्यते पीडा, भूरिपीडापहा वुधैः ।।२६६ ॥ इति ध्यात्वा चितां कृत्वा, तत्र कान्तां निधाय च ॥ प्रविविक्षुः स्वयं याव-ज्ज्वलयामास सोऽनलम् ॥ २६७ ।। तावत्तत्राजग्मतुद्वौ, देवाद्विद्याधरोत्तमौ ॥ इत्यु- ५ चतुश्च तं सद्य-स्तदुःखं वीक्ष्य दु:खितौ ।। २६८ ॥ हुँताशे होतुमात्मानं, कुतो हेतोस्त्वमीहसे ? ।। न हीष्टं विद्यते किश्चित् , प्रा. णिनां प्राणिताहते ॥२६॥ कुमारः स्नाह कान्ता मे, विपन्ना पनगादियम् । विना चैनां न शक्नोमि, जीवितुं तच्छ्रयेऽनलम् ॥२७॥ जीवयावो जीवितेशां, तब तन्मा मृथा वृथा । इत्युक्त्वा मन्त्रितैनीरैः, खेचरौ तामसिश्चताम् ।। २७१ ॥ ततः सा वीतनिद्रेव, विकसल्लोचना स्वयम् ॥ संवृत्य स्वाङ्गमुत्तस्थौ, कुमारस्य मुदा समम् ॥ २७२ ॥ अथापृच्छय कुमारं खे-चरयोगतयोस्तयोः ।। घोरान्धकारनिकरे, जाते च क्षणदाक्षणे ॥ २७३ ॥ पुरमध्येऽधुना गन्तुं, न युक्तमिति चिन्तयन् ।। सप्रियो भूपभूः प्रत्या-सन्नदेवकुले ययौ ॥२७४।। [युग्मम्] उद्योतायाऽऽनयाम्यग्नि मित्युदित्वा गतश्च सः॥ आचाग्निः पुनरायाति, यावद्धयायनिजां प्रियाम् ॥२७५॥ तावदालोर्कमद्राक्षी-न्मध्येदेवकुलं स्फुटम् ।। तत आगत्य साशवं, स कान्तामिति पृष्टवान् ।। २७६ ॥ आदाय वह्निमहाय, नितेन मया प्रिये ! दृष्टो महानिहालोकः, सोऽधुना किं न दृश्यते ॥ २७७ ॥ सा प्रोचे स्वकरस्थ स्य, वह्वेर्दीप्तस्य वायुना ॥ आलोक
१ गरलं विषम् । २ मृताम् । ३ विळापैः । ४ चलने । ५ जीवनात् । ६ द्विजिह्वात् । • रात्रिसमये। ८ प्रकाशम् । ९ झटिति ।