________________
तम् ॥ इत्थं कथश्चिदुल्लघ्या-रण्यं शपुरे ययौ ॥ २४५ ॥ यच तस बलं मिल्ल-बलानष्टमभूत्पुरा । तदप्यन्येन मार्गेणा-Pust 15 ऽऽययौ भूप वोन्तिके ॥२४६॥ तं चायान्तं समाकर्ण्य, सुन्दरो भूपुरन्दरः। अभ्याजगाम सानन्दं, नन्दनं द्रष्टुमद्यतः ॥ २४७॥8॥२७॥ उत्तराध्य
से अभ्यायान्तं कुमारोपि, श्रुत्वा तातं ससम्भ्रमः॥ गत्वा ननाम भूपीठ-न्यस्तशस्तस्वमस्तकः ॥ २४८ ॥ ततः प्रमोदाश्रुजल-क्लिन्ननेत्रो । ॥२७९॥ धराधवः ॥ तमालिङ्ग्य निवेश्याङ्के, मूर्ध्नि जघ्रौ मुहुर्मुहुः ॥ २४९ ।। उत्तम्भितध्वजे बद्ध-तोरणे वपुरे च तम् ॥ प्रियाद्वयान्वितं
हस्त्या-रूढं प्रावीविशन्नृपः ॥ २५० ॥ ततो गतो गृहेऽनंसी-त्स सवित्री वधूयुतः ।। पुत्र ! त्वमक्षयो भूया, इति साप्याशिषं ददौ ॥ २५१ ॥ भोजनानन्तरं पित्रा, पृष्टः पुत्रो यथातथम् ॥ सर्व स्ववृत्तमाचख्यौ, सर्वेषां विस्मयावहम् ॥२५२ ॥ ततो राजा यौवराज्ये, स्थापितो मोदयन् जनान् ॥ कुर्वाणो विविधाः क्रीडाः, स कालं कश्चिदत्यगात् ॥ २५३ ॥ अन्यदानगाभपात्रा-वर्तिनं जनयन् जनम् ॥ दुमान विभूषयन् सर्वान् , मानवानिव यौवनम् ।। २५४ ॥ मानिनीमानकुटाक-कलकोकिलकूजितः ॥ मचद्विरेफझकारमुखरीकृतदिग्मुखः ॥ २५५ ॥ विप्रयुक्तवधूधैर्य-लुण्टाकमलयानिलः । मदमुत्पादयन् यूनां, प्रावर्चत मधृत्सवः ॥ २५६ ॥ [ त्रिभिर्विशेषकम् ] तदा च रन्तुमुद्यान, पार्थिवः पौरसंयुतः॥ ययौ कृताहानमिव, वातोद्धृतद्रुपल्लवैः ॥ २५७ ॥ समं मदनमञ्जर्या, तत्रागापभूरपि ॥ सविस्मयं सकामं च, पोरदारैनिंरीक्षितः ।। २५८॥ दोलन्दोलनपानीय-क्रीडापुष्पोच्चयादीभिः॥ स तत्र कान्तया साकं, रेमे हरिरिव श्रिया ॥ २५९ ॥ रामं रामं यथाकाम, विनोदेर्विविधैरथ ॥ अपराहे पुराधीशः, सम पोरैः पुरे ययौ ॥ २६॥ रतिप्रियः कुमारस्तु, विसृष्टान्यपरिच्छदः ॥ प्रियाद्वितीयः सुचिरं, रन्त्वा यावत्पुरे व्रजेत् ॥ २६१ ॥ तावत्प्राणप्रिया तस्य, दष्टा
१ भूशकः । २ बननीम् । । द्विरेफः अमरः ।
AAV