________________
भृपभृः खपरिच्छदम् ॥ प्रेक्षमाणोऽपि नैक्षिष्ट, नंष्ठा कापि गतं तदा ॥ १९६ ॥ एकेनैव स्यन्दनेन, ततो गच्छन्नपाङ्गजः ॥ उल्लउचराध्य- काय तामरण्यानी-मेकं गोकुलमासदत् ॥ १९७ ॥ निर्गत्य गोकुलाच द्वौ, पुरुषो तमपृच्छताम् ॥ क यास्यतीति स स्माह, यामि यनसूत्रम् दशङ्कपुरे ह्यहम् ।। १९८ ।। आवामपि त्वया सार्ध-मागच्छावो यदीच्छसि ? ॥ इति ताभ्यां पुनः पृष्टो-ऽबादीदोमिति भूपभूः ॥२७६॥
|॥ १९९ ॥ रथे चाश्वौ योजयन्तं, तमेवं ताववोचताम् ॥ अस्त्यत्र मार्गे कान्तारं, क्रूरश्वापदसङ्कुलम् ॥ २० ॥ चौरो दुर्योधना
ह्वान-स्तत्र तिष्ठति दुर्जयः॥ मत्तो हस्ती विषश्च, व्यालो व्याघ्रश्च दारुणः ॥ २०१॥ तदध्वानममुं मुक्त्वा, सौम्य ! गच्छादधुनामुना ॥ सोपद्रवं हि पन्थान-मृजुमप्याश्रयेत कः ? ॥ २०२ ॥ प्रोचे कुमारोऽस्मिन्नेव, मार्गे गच्छत निर्भयाः ॥ ससुखं प्रापयिPष्यामि, युष्मान् शङ्खपुरे द्रुतम् ॥ २०३ ॥ तच्छुत्वा तो नरावन्ये, चाध्वनीना धनान्विताः॥ चेलुम्तेन समं मीना, इवाब्धेः स्रोतसा ।
सह ॥ २०४ ॥ तदा चैको जटाजूट-मुकुटाङ्कितमस्तकः ॥ त्रिशूलकुण्डिकाधारी, भस्मोद्धूलितभूघनः ॥२०५॥ महाव्रती समेत्यैवमुवाच नृपनन्दनम् ॥ पुत्र! शङ्खपुरे देवा-बन्तु मेमि त्वया समम् ।। २०६ ॥ [ युग्मम् ] किन्तु मत्सन्निधौ स्वर्ण-दीनाराः सन्ति केचन॥ देवानां बलिपूजार्थ, दत्ता धार्मिकपूरुषैः ॥ २०७॥ तानादत्स्व यथा मार्गे, बजामो निर्भयं वयम् ॥ धने हि निकटस्थे नः, साशई स्थान्मनो भृशम् ॥ २०८ ॥ इत्युदित्वा कुमाराय, म धनग्रन्धिकां ददौ । आशिषश्च ददत्तस्मै, चचाल सह सार्थिकैः ॥२०९।। स च गानेन नृत्येन, चेष्टाभिर्गतिमिः स्वरैः ।। कथाभिर्विविधाभिश्चा-रञ्जयत्पथिकान् पथि ॥ २१॥ न तस्य व्यश्वसीद्भिक्षुवेषस्थापि नृपात्मजः ॥ अविश्वासः श्रियां मूल-मित्यन्तः परिचिन्तयन् ॥२११॥ वाहांश्च वायंस्तूर्ण, कान्तारान्तर्जगाम सः॥
1 सर्पः । २ पान्थाः । ३ हयान् ।।