SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ अभ्य ॥२७॥ पनपत्रम् ॥२७५॥ उनीकमागतः॥ प्रयाणं कारयामास, ढक्कावादनपूर्वकम् ॥१७९॥ गच्छन् प्रयाणैरच्छिन्न-र्देशमुल्लध्यभूभृतः॥ कुमारः पादपाकीणी, ४ प्रापदेकां महाटवीम् ॥ १८०॥ प्रमद्वरानरान् गर्जा-रवैर्जागरयन्निव ॥ धारासारैर्भुवं सिञ्च-स्तदा चागाद् धनागमः ॥१८१।। ऋतौ तत्रापि राट्पुत्रः, पित्रोः सङ्गन्तुमुद्यतः । न तस्थौ कापि चक्राङ्गः, इव मानसमन्तरा ॥१८२ ॥ तत्रारण्ये व्रजत्तस्य, सैन्यं च बहुभिल्लवान् ॥ रुरोध कोपि मिल्लेशः, सातोवेगमिवाचलः ॥ १८३ ॥ तद्भिल्ले प्रबलैभिन्न, कुमारस्वाबलं बलम् ॥ दिशोदिशं ननाशंद्राग, मेघवृन्दमिवानिलैः ॥१८४॥ सैन्ये नष्टेऽपि सुलसा-मुतः प्राज्यपराक्रमः ॥ युक्तो मदनमञ्जर्या, रथेनैकेन तस्थिवान् ॥१८५॥ युध्यमानश्च तद्भिल्ल-बलं प्रबलमप्यलम् ॥ स शरैरुपद्रुद्राव, ध्वान्तमंशुरिवांशुभिः ॥ १८६ ॥ ततो नष्टं निजानीकं, दृष्ट्वा भिल्लप्रभुः खयम् ॥ युद्धायाढौकत क्रोध-दष्टोष्ठो निष्ठुरं बुवन् ॥ १८७॥ घोराघातनिर्घोष-स्वासयन्तौ वनेचरान् ॥ पृषक्तः सततोन्मुक्तः, कुर्वाणो व्योम्नि मण्डपम् ॥१८८॥ अन्योन्यमुक्तनाराच-घर्षणोत्पन्नवहिना ॥ अनभ्रं विधुदुद्योतं, दर्शयन्तौ मुहुर्मुहुः ॥ १८९ ॥ साश्चर्य वनदेवीमि-वीक्षितौ वीरकुञ्जरौ ॥ ततस्तौ चक्रतुर्वाणा-बाणि तुल्यबलौ चिरम् ॥ १९॥ [त्रिमिर्विशेषकम् ] न त्वेकोपि जयं ले मे, ततो दध्यौ नृपात्मजः ॥ जय्योऽसौ नौजसो तस्मा-च्छलेनापि जयाम्यमुम् ॥ १९१॥ विमृश्येति धाराधीश-सूनुर्मदनमञ्जरीम् ॥ कारितोदारभृङ्गारां, पुरः स्वस्य न्यवीविशत् ॥ १९२ ॥ तां च प्रेक्ष्य सुरीकल्प-रूपां मोहितमानसम् ॥ कुमारस्तीक्ष्णबाणेन, हृन्मर्मणि जघान तम् ॥ १९३ ॥ ततः स भिल्लभूमीशः, पतीतः पृथिवीतले ॥ घातव्यथाकुलोऽप्येवं, कुमारं प्रत्यभाषत् ॥ १९४ ॥ अहं हि स्मरवीरेण, हतपूर्वस्त्वया हतः॥ तन्मयायं हत इति, स्मयं मा स्म कथा वृथा ॥१९५॥ इत्युदीर्य मृते तस्मिन् , ___ नदीवेगमिव पर्वतः । २ स्वसेनाम् । ३ बाणैः । ४ जेतुं शक्यः । ५ बलेन ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy