________________
उत्तराध्ययनसूत्रम् ॥२७४॥
PECIA
अन्य ॥२७॥
कीर्ति, तवाकर्ष्यातिविमिता ।। त्वत्सङ्गमोत्सुका प्राणा-नपि कृच्छ्राद्दधाति सा ॥ १६३ ॥ [युग्मम् ] श्रुत्वेति दत्वा ताम्बूलं, तस्यै भूपात्मजोऽवदत् ॥ भद्रे ! तां ब्रूहि यन्नैव, विधेयोत्सुकता त्वया ॥ १६४ ॥ यथा मत्सङ्गमौत्सुक्यं, बाधते त्वां सुलोचने ! ॥ तथा त्वत्सङ्गमौत्सुक्यं, बाढं मामपि बाधते ॥ १६५ ॥ प्रस्तावमन्तरा किन्तु, न किञ्चिक्रियते बुधैः॥ ततः समयमासाद्य, करिष्यामि समिहितम् ॥ १६६ ॥ इत्युक्त्वा सुलसासूनु-दुतिकां विससर्ज ताम् । सापि प्रामुमुदत्तस्य, वाक्यैर्मदनमजरीम् ॥ १६७ ॥ अन्येयुः करेभारूढी, तत्पितुः सेवकावुभौ ॥ आयातौ तद्गृहे तो च, दृष्ट्वाऽमोदत भूपभूः ॥ १६८ ॥ तौ चालिङ्गय दृढं बाष्पजलाप्लावितलोचनः ।। सोनाक्षीत्कुशलं ? पित्रो-स्ततस्तावित्यवोचताम् ॥ १६९ ॥ पित्रोः श्रेयोस्ति किन्तु त्व-द्विरहाकुलयोस्तयोः॥ न चेचद्दर्शनं भावि, तदा तूर्ण मरिष्यतः ॥ १७० ॥ सोथ गत्वा नृपं प्रोचे, मत्पितुः सेवकावुभौ ॥ मामाह्वातुमिहायातौ, तत्र तद्गन्तुमुत्सहे ॥ १७१ ॥ माहोर्वीशः पुनर्देय-मस्माकं दर्शनं त्वया ॥ त्वदर्शनेन हप्ता स्मः, पीयूषेणेव नो वयम् ॥ १७२ ॥ इत्युदित्वा नृपस्तस्मै, दत्वा चाभरणादिकम् ॥ समं तेन निजां पुत्री, प्राहिणोत्सपरिच्छदाम् ॥ १७३ ।। ततः पूर्या बहिः सेना, निवेश्य सकलां निजाम् ॥ एकेन स्यन्दनेनास्था-त्पूर्मध्ये भूपभूः स्वयम् ॥ १७४ ॥ यामिन्याः प्रथमे यामे, रहस्तां दृतिकां प्रति ॥ प्राहिणो | त्सेवकं चैकं, सोपि गत्वेति तां जगौ ॥ १७५ ॥ सेनां प्रस्थाप्य नृपभू-रथेनैकेन तिष्ठति ॥ कृते मदनमञ्जर्या-स्तत्तामानाय सत्वरम् ।। १८६ ॥ ततो गत्वा तया क्षिप्रं, प्रोक्ता मदनमञ्जरी ॥ पार्श्व भूपभुवो हर्षो-त्फुल्लाङ्गाऽऽगात्सखीयुता ॥ १७७॥ सोपि | रागामयक्षीण-दाक्ष्यमन्दाक्षलोचनः॥ स्यन्दनेऽभ्यारोपयचा-महो सर्वकषाः स्त्रियः ॥१७८ । सोऽथ प्रेर्य हयान् पुर्या, निर्यातो
, उष्ट्रारूढौ।