________________
वब०४ ॥२७॥
तल्पस्य, न्यस्ता यन्त्रशिलाभवत् ॥ १४६ ॥ तदा च सा शिला दस्यु-खस्रा यन्त्रप्रयोगतः॥ पातिताऽचूर्णयपूर्ण, तां शय्यां शरकाउचराध्य- ण्डवत् ॥ १४७ ॥ ततो मया इतः सुष्ट, भ्रातृघातीति वादिनीम् ॥ धृत्वा केशेषु तामेव-मवादीत्पार्थिवाइजः ॥ १४८ ॥ कपटैरपि
मां हन्तु-माः पापे! कः प्रभुर्भवेत् ? । शाम्येत्कि वडवावह्नि-धनैरपि धनाधनः ? ॥ १४९ ॥ इत्युक्त्वा तां सहादाय, भूगेहानि॥२७॥
जगाम सः ।। रूपं निरूप्य रक्तोऽपि, विरक्तस्तत्कुकर्मणा ॥ १५०॥ अथ धैर्यनिघेस्तस्य, मुखाब्जमिव वीक्षितुम् ॥ पूर्वाचलशिरो
देश-मारुरोह नभोमणिः ॥१५१॥ भूपाभ्यणे ततो गत्वा, निशावृत्तं निवेदयन् ।। हतो दस्युः स्वसा तस्या-ऽऽनीतेयमिति सोऽब्रवीत् ४ ॥१५२।। मेदिनीमंन्दिरं तच्चा-दीदृशन्मेदिनीपतेः ।। नृपोपि वित्तं तत्रस्थं, सर्व तत्स्वामिनामदात् ॥१५३॥ निजाङ्गजाश्च कमल
सेनाख्यां कमलेक्षणाम् ॥ ददौ भूपभुवे भूप-स्तच्चरित्रैश्चमत्कृतः ॥ १५४ ॥ शतं गजेन्द्रान् प्रामांश्च, सहस्रमयुतं हयान् ॥ लक्षं पदातीनिष्कांश्च, तस्मै प्रेयुतमार्पयत् ॥१५५ ।। पौरा अपि पुरीदस्यु-हन्तारं तमपूजयन्॥ गुणवान् राजमान्यश्च, यद्वा केन न पूज्यते ?
॥ १५६ ॥ ततो भूमीभुजादत्ते, प्रासादे सप्तभूमिके। तस्थौ नृपात्मजश्चित्ते, विभ्रन्मदनमञ्जरीम् ॥१५७॥ प्राप्तोऽपि भूपतेः पुत्री, | लक्ष्मी कीर्तिश्च भूयसीम् ॥ ता नोदतारयच्चित्ता-दहो ? मोहोऽति दुस्त्यजः ॥ १५८ ॥ अथान्यदा कुमारस्य, स्वसौधे तस्थुषोऽन्तिके । आगात्काचिदशा दत्ता-ऽऽसना चोपविशत्पुरः ॥ १५९ ॥ किमर्थमागतासीति, तेन पृष्टा च साब्रवीत् ? ॥ अहं मदनमञ्जर्या, प्रेषितामि तवान्तिके ।। १६०॥ तयेत्युक्तं च हे कान्त !, मां वियोगाग्नितापिताम् ॥ निजसङ्गमगोशीर्ष-द्रवैर्निर्वापय द्रुतम् ॥ १६१ ॥ अन्यच्च मत्तमातङ्ग-पन्धं तस्करमारणम् ॥ दुष्टस्त्रीदम्भवेदित्वं, नृपनिर्मितपूजनम् ॥ १६२ ॥ लोके च विश्रुतां |
चीरभगिन्या । २ मधैः । ३ भूगृहम् । ४ दशसहस्रम् । ५ दशलक्षम् ।