________________
उचराध्यबनमत्रम् ॥२२॥
अभ्य०१ ॥२२॥
खनंदनमदीधपत् ॥ ७॥ मुग्धत्वमधुराकार, कलमं मुनयोऽपि तम् ॥ सलील लालयामासुः, स्वपुत्रमिव वत्सलाः ॥८॥ शूण्डा | मापूर्य सलिलैः, सकलः कलभोऽपि सः॥ सहर्षिपुत्रकैः सेकं, चकाराश्रमभूरुहाम् ॥९॥ तं सेचनकनामानं, तापसाः प्रोचिरे ततः।। क्रमाच्च यौवनं प्राप्तः, सोऽभूत्प्राज्यपराक्रमः॥१०॥ अटन्नटव्यां तधूथ, द्विपः सोऽपश्यदन्यदा ।। अरीरमच्च संजाता-नुरागास्त
करेणुकाः ॥ ११ ॥ तं दृष्ट्वाऽमर्षणो यथ-नाथस्तं प्रत्यधावत ॥ वृद्धं निहत्य तं यूथ-खामी सेचनकोऽभवत् ॥ १२ ।। अन्यापि | काचित्करिणी, कलभं रक्षितुं निजम् ।। उपायं मम मातेव, माकार्षीदितिचिंतयन् ॥ १३ ॥ कृतघ्नः सगजोऽभांक्षी-न्मंक्षु तं तापसा- 1 श्रमम् ॥ भञ्जन्ति स्वाश्रयं दन्ता-बलाः प्रायः खला इव ॥ १४ ॥ (युग्मम् ) अस्माभिः पोषितेनापि, द्विपेनाऽनेन हा? वयम् ॥ उपद्रुस्तित्किमपि, दर्शयामोऽस्य तत्फलम् ॥ १५ ॥ ध्यात्वेति तापसाः कोपा-द्गत्वा श्रेणिकभूभृते । पुष्पादिप्राभृतभृतो, विज्ञा | व्यज्ञपयन्निदम् ॥ १६ ॥ (युग्मम् ) प्रभो! सेचनकाह्वानः, सर्वलक्षणलक्षितः ।। भद्रजातिर्वनेऽस्माकं, विद्यते गन्धसिन्धुरः ॥ १७ ॥ पृथिव्यां रत्नभूतोऽयं, तवैवाऽर्हति भूपते ! ।। श्रुत्वेति सैन्ययुक् राना, तं ग्रहीतुमगाद्वनम् ॥ १८ ॥ उपायै रिमिभूप-स्तं गृहीत्वाथ | दंतिनम् ॥ आनीय स्वपुरेऽबना-दालाने शंखलागणैः ॥ १९॥ ततः स्वीयवशायथ-वियोगातुरचेतसम् ।। अरुन्तुदैर्वचोमिस्तं, निनिदुरिति तापसाः ॥२०॥रे कृतघ्नक तबीय, शौण्डीय चाधुना तव ।। फलमस्मदवज्ञाया. इदमाअन्म भुज्यताम् ॥ २१॥ निशम्येति क्षतक्षार-क्षेपकल्पां स तगिरम् ।। रोपादालानमुनमूल्य, दधावे प्रति तापसान् ॥ २२ ।। हतप्रतिहतान् कुर्व-स्तांश्चारण्यं गतो गजः तान् बभंजाश्रमान भूयः, प्रभंजन इव दुमान् ॥२३॥ पुनस्तत्ग्रहणायाऽगा-तद्वनं श्रेणिको नृपः । तदेत्यवधिनाऽज्ञासीद्गजाधिष्टायिका सुरी ॥ २४ ॥ सिंधुरोऽसावस्य वश्यो-ऽवश्यं भावी महीपतेः ॥ ज्ञात्वेति साऽब्रवीद्वद्यालं, वाक्यैः पीयूष पेशलैः