________________
ध्या ॥२७॥
कुमारमेक्षेहि यथा कुर्वे तवेहितम् ॥ ११३ ॥ [ युग्मम् ] इत्युदीर्य समं तेन, गत्वा पुर्यां स तस्करः ।। कचिदिभ्यगृहेऽकार्षी-स्वानं उत्तराध्य- श्रीवत्ससंक्षितम् ॥ ११४ ॥ तेन क्षात्रेण गेहान्तः, प्रविश्य निभृतक्रमम् ॥ पेटाः पाटेच्चरो बही, वित्तापूर्णाः समाकृषत् ॥ ११५॥ पनसूत्रम् तद्रक्षायै कुमारं च, तत्र संस्थाप्य तस्करः ॥ प्रलोभ्य दुःस्थानानिन्ये, सुप्तान्देवकुलादिषु ॥ ११६ ॥ पेटाश्चोत्पाव्य तैः शेषं, कुमारे | ॥२७॥
णात्मना तथा ।। नगर्या निर्ययौ केना-ऽप्यदृष्टः स पिशाचवत् ॥ ११७॥ तदा च भूपभूर्दध्यौ, हन्म्येनमसिनाऽधुना ॥ यद्वा मम
कुलीनस्य छलं कर्तुं न युज्यते ॥ ११८ ॥ किञ्च नित्यं कृते कस्य, मुष्णाति नगरीमयम् ॥ गेहे चास्य कियद्वित्त-मिति च ४ ज्ञेयमस्ति मे ॥ ११९ ।। तन्नाय मधुना मार्य, इति ध्यायन्नृपाङ्गजः ॥ तमन्वयासीदक्षो हि, नौत्सुक्यं कुरुते कचित् ।।१२०॥
सर्वेष्वथ पुरोद्यान-मागतेषु मलिम्लुचः । ऊचे कुमारमद्यापि, बहुका विद्यते निशा ॥ १२१ ॥ क्षणमात्रमिहोद्याने, वत्स ! विश्रम्यतां | ततः ॥ विनीयते यथा सर्वै-वविधोद्वहनश्रमः ॥ १२२ । आमेत्युक्त्वा ततो राज-पुत्रो वृक्षस्य कस्यचित् ॥ मृलाद्दक्षिणतस्तस्थौ, परिमोषी तु वामतः ॥ १२३॥ अन्योऽन्यं हन्तुमिच्छन्ती, विजेतुं वादिनाविव ॥ अलीकनिद्रया धूर्त-प्रष्टौ सुषुपतुश्च तौ ॥१२४॥ भारवाहास्तु ते श्रान्त-मुप्ता विश्रब्धचेतसः ॥ तीव्रां तन्द्रामविन्दन्त, तादृशां सुलभा हि सा ॥ १२५ ॥ उत्थाय स्रस्तराद्दक्षः, कुमारस्तु शनैः शनैः ।। कृपाणपाणिरन्यस्य, तरोमूलमशिश्रियत् ।। १२६ ॥ अप्रमत्ते श्रमणवत् , कुमारे तत्र संस्थिते ॥ निस्त्रिंशपाणि| निस्त्रिंशः, समुत्तस्थौ स तस्करः ॥ १२७ ॥ निहत्य भारिकास्तांश्च, कुमारं यावदैवत ॥ आकृष्टासिः पुरोभूय, तावत्सोऽप्येवमब्रवीत ॥ १२८ ॥ परलुण्टाक! रे! पाप!, विश्वस्तजनघातक! ॥ चिरं कृतस्य पापस्य, फलमाप्नुहि साम्प्रतम् ॥ १२९ ॥ इत्युक्त्वा
१ तस्करः । २-४ चौरः । ३ भारोत्पाटन श्रमः । ५ वनकरः । ६ गतदयः ।
-4344
4110+MC