________________
वण्य.
वनसूत्रम्
दृष्ट्वा, गुणरागी हि मोदते ॥ ८१॥ तेनाहूतः कुमारोपि, बद्धालाने मतङ्गजम् ॥ साशङ्कःक्ष्मापतेः पार्श्व, ययौ लोकैः कृतस्तुतिः धराज्य- ॥ ८२ ॥ यावन्ननाम पञ्चाङ्ग-प्रणामेन स पार्थिवम् ।। तावदालिङ्गय भूपस्त-मुपावेशयदासने ॥ ८३ ॥ तं च पश्यन्नृपो दथ्यौ,
| पुरुषो ह्ययमुत्तमः। एतादृशो मवेदस्मि-विनयः कथमन्यथा ? ॥ ८४ ॥ यथा नमन्ति पाथोमिः, पाथोदाः फलंदाः फलैः ।। नम॥१६९॥
न्ति विनयेनैव, तद्वदुत्तमपूरुषाः ॥८५॥ध्यात्वेत्यादि नृपः प्रेम्णा, ताम्बूलादि समर्प्य च ॥ तमित्यपृच्छद्दक्षत्व-मस्ति कासु कलासु * ते॥ ८६ ॥ ततो ब्रीडावशात्किञ्चि-दजल्पति नृपाङ्गजे॥ गुरुः प्रोचेऽस्ति दक्षोऽसौ, कलासु सकलास्वपि ॥ ८७॥ किन्तु सन्तो
न भाषते, सतोपि स्व गुणान् हिया ॥ इत्यसौ मौनमाधत्ते, कुमारो गुणसेवधिः ॥ ८८ ॥ इति श्रुत्वा गुणांस्तस्य, राज्ञि रोमानमश्चति ॥ उपदापाणयः पौरा-स्तत्राजग्मुः सहस्रशः॥ ८९ ॥ ते मुक्त्वा प्राभृतं नत्वा, नृपं चोपाविशन् पुरः॥ प्राभृतं तत्तु भूजानिः, कुमाराय ददौ मुदा ॥९०॥ अथ ते नगरा इत्थं, नरनाथं व्यजिज्ञपन् । स्वामिनियं पूरी पूर्व-मासीत्वर्गपुरीसमा ॥२१॥ सा तस्करेग केनापि, मुष्यमाणा प्रतिक्षणम् ॥ जावास्ति रोसदन-पाया तद्रक्ष रक्ष ताम् ।। ९२ ॥ ततोऽब्रवीत्पुरारक्ष-मेवं क्रुद्धो नराधिपः ॥ रे ! सत्यपि त्वयि कथं, मुष्यते दस्युना पुरी ? ॥ ९३ ।। पुरारक्षोऽवदद्देव!, भृयांसो दिवसा गताः॥ ममान्वेषयतश्चौरं, | न तु प्रापं करोमि किम् ? ॥ १४ ॥ अत्रान्तरे नृपं नत्वा-ऽगडदत्तो व्यजिज्ञपत् ॥ समादिशत मां स्वामिन् !, यथा गृह्णामि तस्करम् ।। ९५ ॥ सप्तभिर्वासरैश्चौरा-ऽलामे त्वग्नौ विशाम्यहम् ॥ ततोऽतिविस्मितः क्षमापः, स्माह साधय कामितम् ॥ १६ ॥ ततोऽमि| नम्य भूजानि-मनुद्विगमनाः स्वयम् ॥ बभ्राम भूएभूश्चौर-वीक्षायै परितः पुरीम् ।। ९७ ॥ मठप्रपादेवकुल-वेश्याशौण्डेिकवेश्मसु ॥
१ जलेः मेवाः । २ वृक्षाः । ३ भिक्षुगृहातल्या । शौण्डिकः ।
--
%
-
न