________________
उतराध्यवनसूत्रम्
॥२६६॥
यतः ॥ २९ ॥ कुमारोऽपि वचस्तस्य, तथा प्रत्यपद्यत ॥ ततस्तं सार्घमादाय, निजं धाम जगाम सः ॥ ३० ॥ भ्रातृव्योऽयं ममायात, इति पत्न्यै जगाद च ॥ जननीमिव तां भक्त्या, कुमारोप्यनमत्ततः ॥ ३१ ॥ ततः सा स्त्रपयित्वा तं भोजयामास सादरम् ॥ कलाचार्योप्यदात्तस्मै, वस्त्राण्याभरणानि च ।। ३२ ।। इदं मदीयं तुरंग सदनस्यन्दनादिकम् || स्वकीयं भवता ज्ञेयं, स्थेयं चात्रेत्युवाच च ।। ३३ ।। ततः कुमारः सन्तुष्ट - चेतास्तस्य गृहे वसन् ॥ प्राच्या विमुच्य दुश्श्रेष्टाः, कलाभ्यासपरोऽभवत् ॥ ३४ ॥ विनयामृतवान् लोक- कैरवाणि प्रमोदयन् ॥ सोऽग्रहीदल्पकालेन, चन्द्रवत्सकलाः कलाः ॥ ३५ ॥ मा विस्मरन्त्विमा भूरि- भाग्यैर्लब्धा | ममेति सः ॥ कलापरिश्रमं चक्रे, गृहोद्यानगतोन्वहम् || ३६ || तस्योद्यानस्य पार्श्वे च चारुवातायनाश्चितम् । अभूद्विशालमृतुनं, | श्रेष्टस्य श्रेष्ठिनो गृहम् ॥ ३७ ॥ तत्र चासीत्सुता तस्य नाम्ना मदनमञ्जरी । स्वर्वधूगर्वसर्वस्व-सर्वङ्कषवपुलता ॥ ३८ ॥ सा च नित्यं | गवाक्षख्या, तं ददर्श नृपाङ्गम् ॥ प्राक्षिपत्तं प्रतिप्रेम्णा, पत्रपुष्पफलादि च ॥ ३९ ॥ राजाङ्गजस्तु नो सम्यक्, तां मृगाक्षीमुदैचत ॥ विद्याग्रहणलोमेन, गुरोराशङ्कया तथा ॥ ४० ॥ अन्यदा मदनोन्माद-विवशा सा वशा द्रुतम् ॥ जघानाशोकगुच्छेन, तं कलाभ्यासतत्परम् ॥ ४१ ॥ तदा त्वगडदत्तस्तां सविशेषं निरैक्षत ॥ नित्यं नितम्बिनीसङ्गे, कस्य वा स्यान्मनो दृढम् १ ॥ ४२ ॥ सम्पूर्णचन्द्रवदनां विनिद्राम्भोजलोचनाम् ॥ स्वर्णकुम्भाभवक्षोजां, पल्लवाताम्रपाणिकाम् ॥ ४३ ॥ प्रादुर्भूतैर्बहिर्मूर्ते - श्नुरागलवैरिव ॥ किङ्केल्लिपल्लवैद्यनां, सूर्यामिव वनश्रियम् ॥ ४४ ॥ लिप्तां स्वर्णद्रवेणेव, पीयूषेणेव निर्मिताम् ॥ तां वीक्ष्य विस्मितश्विचे, कुमारो ध्यातवानिति ॥ ४५ ॥ [त्रिभिर्विशेषकम् ] किमियं कमला नाग-कनी देवाङ्गनाऽथवा ॥ विद्याधरी वा मत्पुण्यैः, प्रत्यक्षा वा सरस्वती! ॥ ४६ ॥ ध्यात्वेत्यूचे च तां सुभ्रु !, काऽसि त्वं कस्य वा सुता १ ॥ मां कलाभ्यासरक्तश्च परिमोहयसे कुतः ? ॥ ४७ ॥ सानन्दा सा
अध्य०४ ॥२६५॥