________________
म्याख्या- 'संसरणं' तेषु तेघूच्चावचकुलेषु पर्यटनं संसारस्तम् 'आपमा प्राप्तः 'परस्य' आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः "अढ"उपराज्य
|| त्ति 'अर्थात्' प्रयोजनमाश्रित्य "साहारणं जं च"ति चस्स वा शब्दार्थत्वादिनक्रमत्वाच साधारणं वा यद् 'आत्मनोन्येषाश्चैतद्भवि- ॥ ॥२५९॥
ष्यति इति बुद्धिपूर्वकं करोति 'कर्म' कृष्याद्यनुष्ठानं, भवानिति गम्यं, 'कर्मणः, तस्यैव कृप्यादेः 'ते' तव कर्मकर्तुः "तस्सउ"त्ति तु | शब्दस्थापिशब्दार्थत्वात् 'तस्थापि' परार्थस्य साधारणस्य वा आस्तामात्मनिमित्तस्येति भावः, 'वेदकाले' विपाककाले 'न' नैव 'बान्धवाः'।
खजनाः यदर्थ कर्म कृतवान् ते वान्धवतां तद्विभजनस्फेटनादिना "उचिंति"त्ति उपयान्ति, तेन स्वजनोपरि मोहं हित्वा धर्म ६ एवावहितेन भाव्यम् । उक्तश्च
"रोगाघ्रातो दुःखादितस्तथा स्वजनपरिवृतो जीवः ॥ कणति करुणं सवाष्पं, रुजं निहन्तुं न शक्तोसौ ॥१॥ माता भ्राता भगिनी, भार्या पुत्रस्तथा च मित्राणि ॥ न प्रन्ति ते यदि रूजं, स्वजनवलं किं वृथा वहसि ? ॥ २॥ रोगहरणेप्यशक्ताः, प्रत्युत
धर्मस्य ते तु विघ्नकराः ॥ मरणाच्च न रक्षन्ति, स्वजनपराभ्यां किमभ्यधिकम् ? ॥३॥ तस्मात्स्वजनस्यार्थे, यदिहाकार्य करोषि + निर्लज्ज ! ॥ भोक्तव्य तस्य फलं, परलोकगतेन ते मूढ ! ॥ ४॥ तस्मात्स्वजनस्योपरि, विहाय रागं च निवृतो भूत्वा ॥ धर्म कुरुष्व | यत्ता-दिहपरलोकस पथ्यदनम् ॥ ५॥" अत्रोदाहरणमामीरीवञ्चकवाणिजस्तत्र चाय सम्प्रदाय:
तथाहि नगरे क्वापि, वणिगेकोऽभवत्पुरा ॥ स च हट्टस्थितश्चके, व्यापार प्रतिवासरम् ॥१॥ अन्यदा सरलात्यर्थ-मामीर्येका तदापणे ॥ रूपकद्वयमादाय, कासार्थमुपागमत् ॥ २ ॥ कर्पासश्च समर्थोऽभू-चदा तस्मात्स नैगमः ॥ एकरूपककर्पासं, तोलयित्वा
१ वणिक् ।
SHRA