SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ क्ष्मीकगृहेषु सः॥ बहुलं द्रव्यमादाय, कूपे तत्राक्षिपत्सदा ॥२॥ धनं दत्वा च कस्यापि, परिणिन्ये स कन्यकाम् ॥ नीर्गुणोऽपि उपराध्य जनो जाया-मवाप्नोति धनेन हि ॥३॥ प्रजातायां तु जायाया-मिति दध्यौ स तस्करः ॥ वृद्धिङ्गतान्यपत्यानि, वक्ष्यन्त्य- अम्ब०४ बनरत्रम् | न्यस्य मे रमाम् ॥४॥ अपत्यमपि हन्तव्यं, तल्लक्ष्मीक्षयकुन्मया ॥ तज्जनन्यां तु जीवन्त्यां, तनिहन्तुं न शक्ष्यते ॥ ५॥ सापत्यापि ॥२५॥ ॥२५६॥ |वधूर्वध्या, तन्मयेति विमृश्य सः॥ तत्रैव कूपे चिक्षेप, निहत्य ससुतां स्त्रियम् ॥ ६॥ द्रव्येणान्यां पुनः पाणौ-कृत्य प्राग्वजधान 8|| सः॥ एवं पुनः पुनर्लोभ-ग्रहग्रस्तो विनिर्ममे ॥ ७॥ अन्यदा स कनीमेका-मुपयेमे मनोरमाम् ॥ जातापत्यामपि न ता-मवधी पमोहितः॥८॥ पूर्णाष्टवर्षे सजाते, तज्जाते चेत्यचिन्तयत् ।। मया भूयस्तरं काल-मिय मोहेन रक्षिता ॥ ९॥ एनां निहत्य तत्पथात् , मारयिष्यामि दारकम् ॥ ध्यात्वेति मारयित्वा तां, कूपे तत्राक्षिपद्रुतम् ॥१०॥ मार्यमाणां च तां वीक्ष्य, भयभ्रान्तस्तदङ्गजः॥5 गृहानिर्गत्य पूचक्रे, निर्बलानां ह्यदो बलम् ॥ ११ ॥ ततः किं पूत्करोपीति, लोकैः पृष्टो जगाद सः ॥ निहत्य जनयित्री मे, कूपे || क्षिप्ताधुनामुना ॥ १२ ॥ तच्छुत्वा तस्य सौधान्तः, प्रविश्योर्वीशपुरुषाः ॥ तं चौरं जगृहुर्जीव-ग्राहं ग्राहा इव द्विपम् ॥ १३ ॥ कप | च ददृशुर्द्रव्या-पूर्णमस्थिभिराकुलम् ॥ ततोऽवबुध्य तं दस्युं, बद्ध्वा निन्युनूपान्तिकम् ॥ १४ ॥ भूपोप्युपायैर्भूयोभि-स्तं प्रपीड्या खिलं धनम् ॥ लोकेभ्यो दापयत्तं च, विडम्ब्यामारयद्धृतम् ॥ १५ ॥ इत्यर्थलोभेन कुकर्म कुर्व-निहापि पीडामधियाति जन्तुः॥ 6 अमुत्र चाधोगतिमेति तेन, त्यक्त्वार्थलोमं कुरु धर्मयत्नम् ॥ १६ ॥ इति द्रव्यलोभे चोरकथा ॥ तदेवं धनमत्र परत्र चानर्थकारीति सूत्रार्थः ॥२॥ अथ कर्मणोऽवन्ध्यतां कथयन् प्रस्तुतमेवार्थ द्रढयितुमाह १ सन्तानवत्याम् । २ माता । ३ जलजन्तुविदोषः SHRESULTS
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy