________________
उपराध्य
*
वनस्त्रम् ॥२०॥
॥२०॥
**
**
भॊगलन्धिश्च जायते ॥ साधनां स्थानदानेन, क्रमान्मोक्षश्च लभ्यते ॥१०॥" इत्याकर्ण्य विशेषात्ती, संतुष्टौ भेजतर्यतीन् । तस्थुस्तत्र चतुर्मासी, मुनयोपि यथासुखम् ॥ ११ ॥ चतुर्मास्यां च पूर्णायां, निग्रन्था विजिहीर्षवः, इत्यभाषन्त तावन्य-व्रतमादातुमक्षमौ ॥ १२॥ सन्तौ भवन्तौ कुरुतां, रात्रौ भोजनवर्जनम् ॥ अत्रामुत्र च यद्दोषा, भूयांसः स्युर्निशाशने ।। १३ ।। यदाहुः-“मेघां8 पिपीलिका हंति, यूका कुर्याज्जलोदरम् ।। कुरुते मक्षिका वांति, कुष्टरोगं च कोलिकः ॥ १४ ॥ कंटको दारुखंडं च, वितनोति गल | व्यथाम् ॥ व्यंजनांतनिपतित-स्तालु विध्यति वृश्चिकः ॥१५॥ विलग्नस्तु गले वालः, स्वरभंगाय जायते ॥ इत्यादयो दृष्टदोषाः, | सर्वेषां निशि भोजने ॥ १६॥ उलूककाकमार्जारगृध्रशंबरशूकराः । अहिवृश्चिकगोधाश्च, जायंते रात्रिभोजनात् ॥ १७ ॥ वाचंयमानां | तौ वाच-मित्याकर्ण्य वितेनतुः॥ निशाहारपरिहारं, विजहः साधवोऽप्यथ ॥ १८ ॥ ततस्तौ तद्वतं सम्यक्, पालयामासतुर्मुदा ॥3
जग्मतुश्चान्यदा चौर्य कृते चौरववृतौ ॥ १९ ॥ बहु गोमाहिषं लात्वा, वलितास्तेऽथ दस्यवः। अध्वन्येवाशनायंतो, महिषं जघ्नुरेककम् ॥ २० ॥ तन्मांसमेके संस्कर्तु-मारभंताऽपरे पुनः । ग्राममेकं समीपस्थं, मद्यार्थ जग्मुरुन्मदाः ॥ २१ ॥ अथ ते पलपक्तारो, लोभेनेति व्यचिंतयन् ॥ हालाहेतोगतान् हन्तु-मुपायं कुर्महे वयम् ।। २२॥ भागेऽस्माकं यथाऽऽयाति, प्रभूतं धेनुमाहिषम् ।। ते विमृश्येति तद्भोज्ये, पिशिते चिक्षिपुर्विषम् ।। २३ ॥ दैवात्तथैव सश्चिन्त्य,ग्राममध्यगता अपि ॥ क्षिप्त्वा हालाहलं हाला-दले तत्पा
श्वमाययुः ।। २४ । तदा च वसुपूर्णोऽपि, प्राप्तपूर्वोदयोऽपि हि ॥ वारुणीसेवया सद्यो, ययावस्तं गभस्तिमान् ॥ २५ ॥ ततोऽन्यैः ४ साग्रहं प्रोक्ता-वपि तौ सोदरौ तदा ॥ व्रतभंगभयान्नैवा-भुञ्जातां सत्त्वशालिनौ ।। २६॥ अन्ये त्वन्योन्यदत्तेन, मद्येन पिशितेन च ॥
विषयुक्तेन भुक्तेन, मृत्वा दुर्गतिमैयरुः ॥ २७॥ ततस्तानिधनं प्राप्ता-निरिक्ष्य निखिलानपि ।। इत्यचिंतयतां चित्ते, तावुभौ स्वीकृ
*****
AAS