SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ बनवम् १२४९॥ बन्य०४ ॥२४॥ ॥ अथ चतुर्थाध्ययनम् ॥ ॥ अईन् । उक्तं तृतीयमध्ययनमथ चतुर्थमारम्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने बहुरङ्गी दुर्लमेत्युक्तमिह तु तत् प्राप्तावपि महते दोषाय प्रमादो, महते गुणाय चाप्रमाद इति प्रमादाप्रमादौ हेयोपादेयतया वक्तं प्रमादाप्रमादामिधं चतुध्ययनमाह, तस्य चेदमादिसूत्रम्मूलम्-असंखयं जीविअ मा पमायए, जरोवणीअस्स हु नस्थि ताणं । एवं विआणाहि जणे पमत्ते, कं नु विहिंसा अजया गहिति ॥१॥ व्याख्या-'असंस्कृतं' असंस्करणीयं, 'जीवितं' प्राणधारणं, यत्नशतैरपि सतो वर्धयितुं त्रुटितस्य वा तसा कर्णपाशवत्सन्धातु| मशक्यत्वात , यदुक्तं-"वासाई दोण्णि तिण्णि व, वाहिजइ जइ घरं पि सीडेइ ॥ सा का वि नत्थि नीई, सीडिजइ जीविअं जीए ॥१॥" तथा-" मङ्गलैः कौतुकोगे-विद्यामन्त्रैस्तथौषधैः । न शक्का मरणात्रातुं, सेन्द्रा देवगणा अपि ॥ १॥” ततः किं| कार्यमित्याह-'मा प्रमादीः' अयं भावः-यद्यायुः कथनित्संस्कर्तुं शक्यं स्यात्तदा चतुरङ्गीप्राप्तावपि न प्रमादो दोषाय, यदा तु नैवं तदा चतुरङ्गी प्रमादिनां भूयो दुर्लमेति मा प्रमादं कथाः। ननु वार्धक एवं धर्म करिष्यामीति कोऽपि वक्ति इत्याशङ्कथाह-जरा १ "वर्षाणि द्वे वा श्रीणि वा, वाहते जीर्णगृहमपि सीवित्वा । सा कापि नास्ति नीतिः, सीव्यते जीवितं यया ॥१॥"२ ततः किमित्याह ॥ इति हर्षप्रतो। मकर
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy