SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ अध्य I मूलम्-मित्तवं नाइवं होइ, उच्चागोए अ वण्णवं ॥ अप्पार्यके महापण्णे, अभिजाए जसो बले ॥१८॥ बमसूत्रम् व्याख्या-क्षेत्रं' ग्रामारामादि, सेतुकेतूभयात्मकं वा, 'वास्तु' खातोच्छ्रितोभयात्मकं, 'हिरण्यं' सुवर्ण, उपलक्षणत्वात रूप्यादि ॥२४॥ च, 'पशवा' गोमहिष्यादयः, दासाश्च-प्रेष्यरूपाः, "पोरुसं"ति प्राकृतत्वात् पौरुषेयं च-पदातिसमूहो दासपौरुषेयमिति, 'चत्वारः' चतुःसङ्ख्या , अत्र हि क्षेत्रं वास्तु चेत्येका, हिरण्यमिति द्वितीयः, पशव इति तृतीयः, दासपौरुषेयमिति चतुर्थः, एते कामा:-मनोज्ञाः । शब्दादयः तद्धेतवः स्कन्धाः-तत्तत्पुद्गलसमूहाः कामस्कन्धा यत्र भवन्तीति गम्यते, प्राकृतत्वाच्च नपुंसक निर्देशः, 'तत्र' तेषु कुलेषु स उपपद्यते ॥ १७ ।। अनेन चैकमङ्गमुक्तमथ शेषाणि नवाङ्गान्याह-मित्रवान' वयस्यवान् भवतीति योगः१। 'ज्ञातिमान्' खज| नवान् भवति २। 'उच्चैर्गोत्र:' उत्तमकुल: ३। 'चः' समुच्चये, 'वर्णवान्' प्रशस्तशरीरच्छविः ४ । 'अल्पातङ्क: आतङ्कविरहितो नीरोग । इत्यर्थः ५। 'महाप्राज्ञः' पण्डितः ६। 'अभिजातः' विनीतः, स हि सर्वजनाभिगम्यो भवति, दुर्विनीतस्तु शेषगुणयुक्तोपि न तथेति 8 ७ । अत एव च "जसो"त्ति 'यशस्वी' शुभख्यातिमान् ८ । “बले"त्ति 'बली' कार्यकरणम्प्रती सामर्थ्यवान् ९ । उभयत्र सूत्रत्वा|| न्मत्वर्थीयलोप इति सूत्रधार्थः ॥ १८ ॥ ननु यथोक्तगुणयुक्तं मानुष्यमेव तत्फलमुतान्यदपीत्याह मूलम्-भोच्चा माणुस्सए भोए, अप्पडिरूवे अहाउअं॥ पुव्वं विसुद्धसद्धम्मे, केवलं बोहि बुझिआ ॥१९॥ 5 || मूलम्-चउरंगं दुल्लहं मच्चा, संजमं पडिवज्झिआ॥ तवसा धुअकम्मंसे, सिद्धे हवइ सासएत्ति बेमि ॥ २०॥ (1) तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिम्यते ॥ ॥ केतुक्षेत्रमाकाशोदकनिष्पाचसस्यम् ॥ २ ॥ उभयझेनं तु उभषजलनिष्पायसमिति ॥३॥ (२) तत्र खातं भूमिगृहादि ॥ 1 ॥ उच्छ्रितं प्रासादादि ॥ २ ॥ तदुभयं भूमिगृहोपरिस्थप्रासादम् ॥३॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy