SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ 4% पचराध्य पनपत्रम् ॥२४६॥ YAM दमाह-'मन्यमानाः' मनस्यवधारयन्तो विशिष्टकामादिप्राप्तिसमुत्थरतिसागरावगाढतया दीर्घस्थितिमत्तया च 'अपुनश्यवं' अपुन यवनं तिर्यगादिपुत्पत्तेरभावम् ॥ १४ ॥ तथा "अप्पि अ"त्ति अर्पिता इव 'अर्पिताः' ढौकिताः प्रक्रमात्प्राक्कृतसुकृतेन, केषामित्याहम 'देवकामानां' दिव्याङ्गनास्पर्शादीनां, कामेन इच्छया रूपविकरणं येषां ते 'कामरूपविकरणा' यथेष्टरूपादिकरणशक्तियुक्ता इत्यर्थः । 'ऊर्द्धम्' उपरि 'कल्पेषु सौधर्मादिषु, उपलक्षणत्वात् अवेयकानुत्तरेषु च, 'तिष्ठन्ति' आयुःस्थितिमनुभवन्ति, 'पूर्वाणि' सप्ततिको टिलक्षषट्पञ्चाशत्कोटिसहस्रवर्षपरिमितानि, 'वर्षशतानि' प्रतीतानि, 'बहूनि' असङ्ख्येयानि, जघन्यतोऽपि तत्र पल्योपमस्थिति स्वात् , पल्योपमे च तेषामसङ्ख्येयानामेव भावात् , पूर्ववर्षशतग्रहणं त्विह पूर्ववर्षशतायुषामेव चरणयोग्यतया विशेषाद्देशनायोग्यत्वहै. मिति सूचनार्थमिति सूत्रद्वयार्थः ॥ १४ ॥ १५ ॥ अर्थतेषामेतावदेव फलमुतान्यदपीत्याहमूलम्-तत्थ हिच्चा जहाठाणं, जख्खा आउक्खए चुआ॥ उवेन्ति माणुसं जोणिं, से दसंगेभिजायइ ॥१६॥ व्याख्या-'तत्र' तेषु देवलोकेषु सौधर्मादिषु स्थित्वा 'यथास्थानं' यद्यस्य स्वानुष्ठानानुरूपमिन्द्रादिपदं तमिन् यक्षाः 'आयुःक्षये' खखजीवितावसाने 'च्युताः' भ्रष्टाः 'उपयान्ति' गच्छन्ति मानुषीं योनि, तत्र च "से" इति सावशेषशुभकर्मा जन्तुर्दश अङ्गानि भोगोपकरणानि यस्यासौ दशाङ्गोऽभिजायते, एकवचननिर्देशस्त्विह विसदृशशीलतया कश्चिदशाङ्गः कश्चिमवाङ्गादिरपि जायते इति वैचित्र्य सूचनार्थ इति सूत्रार्थः ॥ १६ ॥ अथ दशाङ्गान्येवाहमूलम्-खितं वत्थु हिरणं च, पसवो दास पोरुसं ॥ चत्तारि कामखंधाणि, तत्थ से उववजई ॥ १७ ॥ AA%CE
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy