________________
अम्बा HRYYN
॥२४४॥
दिक्पटसञ्जनिलयः, प्रकाशितो हारितशुद्धबोधिकः ॥ लब्धोऽपि बोधिव्रजाति कस्यचित् , तद्रक्षणं तत्कुरुत प्रयत्नतः ॥ ८१॥ इत्यष्टमनिलवकथा।। इति समाप्ता निववक्तव्यतेति सूत्रार्थः॥९॥ अथ मानुषत्वादित्रयावाप्तावपि संयमे वीर्य दर्लभमित्याह- __ मूलम्-सुइं च लड़े सद्धं च, वीरिअं पुण दुल्लहं ॥ बहवे रोअमाणावि, नोयणं पडिवजए ॥ १०॥ |
व्याख्या-श्रुति, च शब्दात मानुषत्वं च, 'लब्ध्वा प्राप्य, श्रद्धां च, वीर्य, प्रक्रमात संयमविषयं पुनःशब्दस्य विशेषकत्वाद विशेषेण दुर्लभ, यतो बहवो 'रोचमाना अपि' श्रद्दधाना अपि "नोयण"ति सूत्रत्वाद् नो एनं संयमं प्रतिपद्यन्ते चारित्रमोहनीयकर्मोदयतः सत्यकिश्रेणिकादिवत्कर्तु नाङ्गीकुर्वन्तीति सूत्रार्थः ॥ १० ॥ अथास्य चतुरङ्गस्य फलमाह| मूलम्-माणुसत्तंमि आयाओ, जो धम्म सुच्च सदहे ॥ तवस्सी वीरिअं लर्छ, संवुडे निद्भुणे रयं ॥ ११ ॥
व्याख्या-मानुषत्वे आयातो यो धर्म श्रुत्वा "सद्दहे"त्ति श्रद्धत्ते स 'तपस्वी' निदानादिरहिततया प्रशस्यतपोन्वितः 'वीर्य' संयमोद्योग लब्ध्वा 'संवृतः' स्थगिताश्रवो 'निर्धनोति' नितरामपनयति 'रजो' बध्यमानकर्मरूपं, तदपनयनाच मुक्ति मेवामोतीति
भाव इति सूत्रार्थः ॥ ११ ॥ इत्यामुष्मिकं फलमुक्तमिदानीमैहिकं फलमाह* मूलम्-सोही उज्जुअभूअस्स, धम्मो सुद्धस्स चिट्टइ ॥ णिवाणं परमं जाइ, घसित्ति व पावए ॥१२॥
व्याख्या-'शुद्धिः कषायकालुष्यापगमः, स्यादिति गम्यते, 'ऋजुभूतस्य' चतुरङ्गप्राप्त्या मुक्ति प्रति प्रगुणीभूतस्य तथा च 'धर्म'क्षान्त्यादिः शुद्धस्य 'तिष्ठति' अविचलतया आस्ते, अशुद्धस्य तु कदाचित्कषायोदयादसौ विचलत्यपि, धर्मावस्थितौ च 'निर्वाणं'
-
-