________________
उचराध्यज ॥२४३॥
विघ्नः स्यान्न तु चीवरात् ।। ६३ ।। प्रयोगश्चात्र वस्त्रादि, न दोषाय तपस्विनाम् ॥ धर्मोपष्टम्भदायित्वात् शुद्धाहारादिवत्स्फुटम् ॥ ६४ ॥ न च हेतुरसिद्धोऽय - मिति वाच्यं त्वया यतः ॥ धर्मोपष्टम्भदायित्वं तस्याऽध्यक्षेण दृश्यते ॥ ६५ ॥ तथा हिस्थानोपवेशनस्वाप — निक्षेपग्रहणादिषु ॥ जन्तुप्रमार्जनार्थं हि, रजोहरणमिष्यते ॥ ६६ ॥ सम्पातिमादिसन्वानां, रक्षायै मुखस्त्रिकाम् || भक्तपानस्थजन्तूनां परीक्षायै च पात्रकम् ।। ६७ ।। सम्यक्त्वज्ञानचारित्र – तपः साधनहेतवे ॥ चीवराणि च कल्पादी - न्यङ्गीकुर्वन्ति साधवः ॥ ६८ ॥ [ युग्मम् ] वस्त्रैर्विना तु शीतोष्ण-दंशादिभिरुपद्रुतः ॥ अपध्यानान्मुनिर्जातु, सम्यक्त्वादेः स्खलेदपि ॥ ६९ ॥ धर्मोपकरणस्यैवं, धर्मोपष्टम्भदायिता ॥ सुनिश्चितेति व्रतिनां तदादानं न दुष्यति ॥ ७० ॥ विनोपकरणं यस्तु जीवादींखातुमिश्वरः ॥ जिनेन्द्रवत्तस्य दोषः स्यात्तदग्रहणेऽपि न ॥ ७१ ॥ स चाद्यसंहननवा - नेव स्यान्नाऽपरः पुनः ॥ तच्च संहननं कस्या - ऽप्यधुना नास्ति भारते ।। ७२ ।। युक्तयेत्यादिकयोक्तोऽपि, शिवोऽत्यक्तकदाग्रहः । हित्वा वस्त्रादिकं ननो, निरगान्नगराद्बहिः ।। ७३ ।। तञ्चोद्यानस्थितं नन्तुं तद्भगिन्युत्तराभिधा ॥ ययौ ननं च तं वीक्ष्य, साऽपि नम्राऽभवद्भुतम् ॥ ७४ ॥ भिक्षार्थ नगरीमध्ये, प्रविष्टां तां तु नग्निकाम् ॥ ददर्श गणिका काचि - दध्यौ चैवं स्वचेतसि ।। ७५ ।। अङ्गान्याच्छादितान्येवाSस्माकं गौरवमिति ।। प्रकाश्यानि तु तानि स्यु-र्जुगुप्स्यानि स्वभावतः ॥ ७६ ॥ तदेनां नग्निकां वीक्ष्या-मासु लोको विर क्ष्यते ॥ ध्यात्वेति तस्यै वस्त्राणि, सा बलात्पर्यधापयत् ॥ ७७ ॥ तथापि तामनिच्छन्तीं शिवभूतिरदोऽवदत् ॥ साध्वीनां वसनादाने, नूनं दोषो न विद्यते ॥ ७८ ॥ अत एव च देवीयं प्रदत्ते चीवराणि ते । तत्त्वयामूनि धार्याणी-त्युक्ता सा तेन तान्यधात् ॥ ७९ ॥ शिवभूतेश्व शिष्यौ द्वावभूतां बुद्धिशालिनौ | कोडिनकोट्टवीराख्यौ, ताभ्यामासीत्परम्परा || ८० ॥ इत्यष्टम
अध्य०३ |॥२४३॥