SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ HI % पनपत्रम् ॥२४२॥ + %* ६॥ ४६॥ तमुपाचवतं ज्ञात्वा, प्रातस्तत्राऽऽययौ नृपः॥ मामनापृच्छय किमिदं, त्वया कृतमिति ब्रुवन् । ॥४७ ।। स प्रोचे पृष्टमेहै वैत-त्स्वातन्यप्रार्थिना मया ॥ ततो नृपस्तं नत्वाऽगा-द्विमनास्तद्वियोगतः॥४८॥ बहिविहृत्य तत्राऽऽगुः, सरयोऽप्यऽन्यदा पुनः॥ तदा शिवं नृपः स्नेहा-दाहूय स्वगृहेऽनयत् ॥४९॥ अनीच्छतोऽपि तस्याऽदा-धवो रत्नकम्बलम् ॥ तमादायागतं सूरिः, शिवभूति तदेत्यवक् ॥५०॥ किमयं भवता वत्स!, जगृहे रत्नकम्बलः ॥ न हि नो बहुमूल्यस्य, वस्त्रादेग्रहणं मतम् ॥ ५१॥ इत्युक्तोऽपि स सूरीन्द्र-स्तं न तत्याज मूर्छया ॥ किन्तूपधौ गोपयित्वा, ररक्ष छन्नमन्वहम् ।। ५२ ॥ अस्य मूर्छानिदानेन, किम| नेनेति सूरयः । तस्मिन् कापि गते रत्न-कम्बलं तमकर्षयन् ॥ ५३ ॥ विधाय तस्य शकेला-निषद्यायै तपस्विनाम् ॥ आर्पयंस्तच्च | विज्ञाय, शिवभूतिरयत ॥ ५४ ॥ कृतावाहित्यस्तस्थौ च, गुरोश्छिद्राणि मार्गयन् ॥ अन्यदा वर्णयश्चैवं, सूरयो जिनकल्पिकान् ॥ ५५ ॥ भवन्ति द्विविधास्ताव-जिनकल्पिकसाधवः ॥ तत्रै के भुञ्जते पाणा-वन्ये त्वश्नन्ति पात्रके ।। ५६ ॥ तेऽपि प्रत्येकमुदिता, द्विविधा जिनपुङ्गवैः । तत्र वस्त्रधरा एके-ऽन्ये तु चीवरवर्जिताः ॥५७।। श्रुत्वेत्यादि शिवोऽवोच-जिनकल्पोऽधुना कुतः॥ विधीयते न निर्ग्रन्थै-निष्परिग्रहतार्थिमिः ? ॥५८॥ सरिजंगाद व्युछिन्नो, जिनकल्पो हि भारते ॥ श्रीवीरस्वामिपौत्रेण, श्रीजम्बूस्वामिना समम् ॥ ५९ ॥ सोवादीदल्पसचानां, न्युछिन्नोऽसौ न माहशाम् ।। मादृशो हि महासत्वः, कर्तुमीष्टेऽधुनाप्यमुम् ॥ ६० ॥ मोक्षार्थिना हि सकल-स्त्याज्य एवं परिग्रहः ॥ वस्त्रपात्रादिकमपि, तत्त्यक्ष्यामि परिग्रहम् ॥ ६१ ॥ सूरयः प्रोचिरे वत्स!, वस्त्रपात्रादिकं ह्यदः ॥ धर्मोपकरणं तेन, न परिग्रह उच्यते ।। ६२ ॥ तद्रक्षणे च नो कश्चि-दोषो मोक्षार्थिना भवेत् ।। लोभादेव हि मोक्षस्य, | । खदान् । २ बेसवासारु इति भा० । ३ आकारगोपनं कृत्वा इत्यर्थः । KALAMAA% *
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy