SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ उपराज्य वनसूत्रम् ॥२३९॥ | नृतम् ॥ माहिलस्त्वनृतं ब्रूते, निह्नवो ह्येष सप्तमः ॥ ३ ॥ तदाकर्ण्याऽऽगता देवी, सङ्घमेवमवोचत | कायोत्सर्ग पारयित्वा, भाषितं शृणुताऽर्हतः || ४ || सङ्घः सत्यो माहिलस्तु, निहवोऽनृतभाषकः । तयेत्युक्तेऽवदद्गोष्ठा - माहिलोऽतिकदाग्रही ॥ ५ ॥ असौ बराकी खरपड - स्तत्र गन्तुं क्व शक्नुयात् १ ॥ तत्कल्पितमियं वक्ति, न पुनर्जिन भाषितम् || ६ || ततस्तं पुष्पमित्राख्यसूरयोऽप्येवमूचिरे ॥ सम्यक् श्रद्धेहि नोचेत्वं सङ्घमायः करिष्यसे || ७ || तथापि तं तन्मतमत्यजन्तं, चकार सङ्घोऽखिलसङ्घबाझं ॥ युद्धादयन् सोऽपि जनाननेकान्, बभ्राम भूमौ गतबोधिरत्नः ॥ १०८ ॥ इति सप्तमनिह्नवकथा ॥ ७ ॥ "इति खल्पजिनप्रोक्त-वचनोत्थापका अमी || सप्तोक्ता निह्नवाः पूर्व, प्रोक्ता गाथाद्वयेन ये ॥ १ ॥ ” “ अथ भूरिविसंवादी, प्रसङ्गात् प्रोच्यतेऽष्टमः ॥ श्रीवीरमुक्तेर्जातोऽब्द-शतैः पद्मिनवोत्तरैः || २ ||" तथाहि - रथवीरपुराभिख्ये, पुरेऽभूद्दीपका| भिधम् । वनं तत्रार्यकृष्णाख्याः सूरयः समवासरन् ॥ ३ ॥ इतश्व शिवभूत्याख्यः, क्षत्रियः साविकाग्रणीः ॥ सहस्रयोधी तत्रत्यं नृपं सेवितुमाश्रयत् ॥ ४ ॥ नृपो दध्यौ परीक्षेऽद-मस्य धैर्यादिकान् गुणान् ॥ निर्गुणो ह्यनुजीवी स्या-त्स्वामिनो नो सुखाकरः || ५ || परीक्षापूर्वमेवासे, प्रदास्ये वृत्तिमप्यहम् || निर्गुणे हि जने दत्तं स्याद्भस्मनि हुतोपमम् || ६ || ध्यात्वेति भूपतिः श्याम - चतुर्दश्यां निशामुखे || पशुमेकं वारुणीं च तस्य दत्वैवमब्रवीत् ||७|| श्मशानस्थे मातृदेवी - गृहे गत्वा त्वमेककः ॥ पशुमद्यबलिं देहि, कृत्यमेतद्विधेहि नः ॥ ८ ॥ शिवभूतिस्तदादाय धीरः प्रेतवने ययौ ॥ निहत्य छगलं मातृ-देवीनां च बलि ददौ ॥ ९ ॥ क्षुधितोऽस्मीति तत्रैवा ssरेमे तन्मांसभक्षणम् || श्मशानमातृ देवीभ्यो, विभयामास न त्वसौ ॥ १० ॥ तदा च तद्भापनाय, भूपेन प्रहिता नराः ॥ तत्रागत्य शिवाशब्दान्, भैरवान् परितो व्यधुः ॥ ११ ॥ बभाज तैरपि क्षोभं, तम्मनो न मनागपि ॥ HOURS अध्य०३ ||॥२३९॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy