________________
चराज्य वनसूत्रम् ॥२३७॥
494
-9-15
बहिरन्तर्वा, सम्बन्धाद्वेदनाकृतः॥ ६७॥ सञ्चारित्वाच्च तत्कर्म, न गच्छति भवान्तरे ॥ जीवेन सह देहस्थ-निश्वासादिसमीरवत् ॥ ६८ ॥ सर्वैर्जीवप्रदेशस्त-निबद्धं कर्म मन्यताम् ॥ रागादिवन्धहेतूनां, सद्भावात्सकलात्मनि ॥ ६९ ॥ न चाविभागसम्बन्धा| पार्थक्य जीवकर्मणोः ।। नैव भावीति विज्ञेय, तद्वाक्याकर्णनात्वया ॥ ७० ॥ यतोऽविभागसम्बध-वतोरप्यश्महेमयोः ।। पृथग्भावो
जायमानः, प्रत्यक्षेण निरीक्ष्यते ।। ७१ ॥ इत्यादिभिः सूरिवाक्य-र्वन्ध्यो निःशङ्कतां गतः॥ माहिलायाऽवदचानि. द्रुतं गत्वा | तदन्तिके ॥ ७२ ॥ तथापि स शठश्चित्ता-नात्याशीतं कदाग्रहम् ॥ क्षोभनां पुनरन्यत्र, करिष्यामीति चिन्तयन् ॥ ७३ ॥ अन्यदा नवमं पूर्व, प्रत्याख्यानामिधं पठन् ॥ वन्ध्यसाधुर्मुनेः प्रत्या-ख्यानमेवमवर्णयत् ।। ७४ ॥ याव जीवं सर्वमेव, प्राणिप्राणातिपातनम् ॥ त्रिविधं त्रिविधेनाङ्गी, प्रत्याख्याति व्रतीभवन् ।। ७५ ॥ इत्याद्याकर्ण्य तं गोष्ठा-माहिल: प्रोचिवानिति ॥ परिमाणयुतं प्रत्या-ख्यानं साधोर्न युज्यते ॥ ७६ ॥ यावज्जीवमिति प्रोक्त, कालमानमुरीकृतम् ॥ तथा चा हनिष्यामि-त्याशंसाषणं भवेत ॥ ७७ ॥ तमादपरिमाणेन, प्रत्याख्याम्यखिलं वधम् ॥ त्रिविधं त्रिविधेनेति, वाच्यं स्वीकुर्वता व्रतम् ॥ ७८ ॥ एवं बदन्तं तं बन्ध्यो-म्यधादिति महामतिः ॥ आशंसा कि कालमाना-जायते वाञ्छयाऽथवा ? ॥७९॥ आद्ये पक्षे मुनेरद्धा-प्रत्याख्यानं वितन्वतः ॥ पौरुष्यादिपदोच्चारे-ऽप्यासा स्यादनाहता ॥ ८० ॥ पौरुष्यादिपदेनाद्धा-प्रत्याख्यानेऽपि निश्चितम् ॥ यामादिकं कालमान-मेव यस्माद्दीयते ॥८१॥ अथ तत्रापि पदं त-नो वाच्यमिति चेत्तदा ॥ भवेदनशनापत्तिः, प्रव्रज्यादिन एव हि ॥८॥ न च साधोभवेन्नाद्धा-प्रत्याख्यानमिति त्वया ।। वक्तव्यमपसिद्धान्त-दोषापत्तियतो भवेत् ॥ ८३ ।। सिद्धान्ते हि जिनैरद्धा-प्रत्याख्यानं तपखिनाम् ।। कर्तव्यत्वेन कथितं, दशधाऽनागतादिकम् ।। ८४ ॥ वाञ्छारूपो द्वितीयोऽपि, पक्षो नो युज्यते क्वचित् ॥
+%9
4
%
%