________________
उपराष्प-I
१२३६॥
| द्धितः॥ सशक्लिष्टात्तु परीणामा-पत्करोति निकाचितम् ॥ ४२ ॥ तत्र बद्धं याति नाश-मुपायैनिन्दनादिभिः ।। प्रायश्चित्तायुपा
बम्ब | यैस्तु, स्पृष्टं कर्म निवर्तते ॥५०॥ निकाचितं तु यत्कर्म, जीवैः सुदृढबन्धनात् ॥ उदये नैव तत्प्रायो, वेद्यते नान्यथा पुनः ॥५१॥
॥२३६॥ इत्यनुप्रेक्षमाणं तं, गोष्ठामाहिल इत्यवक ॥ मैवं वादीर्यदस्माभि-गुरुभ्यो नेदृशं श्रुतम् ॥ ५२ ।। यदि स्यादात्मना कर्म, बद्धं स्पृष्टं निकाचितम् ॥ तदा तदपृथग्भावा-मोक्षस्तस्य कथं भवेत् ? ॥५३॥ वन्ध्योऽभ्यधात्कथं तर्हि, सम्बन्धो जीवकमणोः ॥ तत इत्यलपद्गोष्ठा-माहिलः कल्पनापटुः ॥५४॥ यथा कञ्चुकिनो देहं, बहिः स्पृशति कञ्चुकः॥ वपुषा सह सम्बद्धो, न त्वसौ3 जातु जायते ॥ ५५ ॥ एवं कर्मापि जीवेन, स्पृष्टं बद्धं पुनर्न तत् ॥ यस्तु तन्मन्यते, बद्धं तस्य न स्याडूवक्षयः ।। ५६ ।। एतावदेव गुरुभिः, प्रोक्तं नः पाठनक्षणे।। एष सूरिस्तु तत्तचं, नैव जानाति किश्चन ॥५७॥ जाताशङ्कस्ततो गत्वा, वन्ध्यः सूरीन्द्रसन्निधौ । निवेद्य * माहिलवचः किं तथ्यमिति पृष्टवान् ? ॥५८ । सूरयः प्रोचुरुक्तं हि, प्राग्मया तथ्यमेव ते ॥ माहिलस्य तु गीनैव, युक्ता युक्तिवि-5 रोधतः ॥ ५९ ॥ जीवो हि स्वावगाहाभि-प्ति एवाम्बरे स्थितम् ।। गृह्णाति कर्मदलिक, जातु न त्वन्यदेशगम् ॥ ६० ॥ तथा च | ववययःपिण्ड-वदैक्यं जीवकर्मणोः ॥ स्यान्न तु स्पृष्टमात्रत्वं, देहकञ्चुकवत्तयोः ॥६॥ अथात्मान्यप्रदेशस्थं, कर्मादायानुवेष्टयेत् ॥
यद्यात्मानं तदा तस्य, घटते कन्चुकोपमा ॥ ६२॥ किन्तु स्वादपसिद्धान्त-स्तदा सूत्रविरोधतः॥ सूत्रे ह्यन्यप्रदेशस्थ-कर्मादानं नि|षिध्यते ॥ ६३ ॥ किश्च कञ्चुकवत्कर्म, चेदहिःस्थितमात्मनि ॥ वेदनापि तदा कर्म-निमित्तान्तः कथं भवेत् ? ॥ ६४ ॥ अथ | सञ्चारिभावात्स्या-त्कर्म मध्येपि संस्थितम् ॥ इत्यन्तर्वेदनापि स्था-दिति चेत्तेन मन्यते ॥ ६५ ।। तर्हि कञ्चुककल्पत्वं, कर्मणो में | व्याहतं स्फुटम् ।। कञ्चुको हि बहिः स्पृष्ट, एवं स्थान तु मध्यगः ॥६६॥ तदा च युगपन्न स्या-दहिमध्ये च वेदना ॥ कर्मणो
***
*
*