________________
॥२२९ ।।
रोहगुप्त एवं व्यचिन्तयत् ॥ अयं हि मम सिद्धान्ते, प्रविष्टो धूर्तधूर्वः ॥ २८ ॥ अहमप्येवमेवाथ, चेद्वक्ष्ये तदयं जनः ॥ ज्ञास्यत्यसौ परिव्राजो, मतं स्वीकृतवानिति ॥ २९ ॥ तद्वम्बः सत्यमप्यस्यो- त्थापनीयं मयाऽधुना ॥ वादे हि तथ्यमप्यन्य-वची | हन्येत युक्तिभिः ॥ ३० ॥ ध्यात्वेति सोऽवदद्वादि-न्माषादीरीदृशं वचः ॥ यजीवाजीवनोजीव-रूपं राशिश्रयं भवेत् ॥ ३१ ॥ तत्र जीवा मवस्थाया, अजीनाथ घटादयः । नो जीवास्तु डिनगृहं गोधापुच्छादयो मताः ॥ ३२ ॥ वाच्यं न चेदं त्रैविध्य-मयुक्त युक्तिवेदिभिः । दण्डादावादिमध्यान्त - रूपत्रैविध्यदर्शनात् ।। ३३ ।। भावेष्वेवं जगत्काल-मुख्येषु सकलेब्वपि ॥ त्रैविध्यं दृश्यते तम, द्वैविध्यं स्वादिहोचितम् ॥ ३४ ॥ तेनेति राचित्रितयं, व्यवस्थाप्य पराजितः ।। परिवाद् तञ्जयायाऽथ, वृश्चिकान् विदधे बहून् ॥ ३५ ॥ ऊर्द्धातोरुपुच्छांस्ता-नायातो वीक्ष्य दुर्धरान् || रोहगुप्तो व्यधाद्भूरि-बर्हिणस्तन्निबर्हणान् ।। ३६ ।। वृश्चिकेषु मयूरैस्तैनिहतेषु त्रिदण्डिकः ॥ भोग भोगेन कीनाश - दण्डाभान् भोगिनोऽतनोत् ॥ ३७ ॥ दृष्ट्वोत्कटस्फाटाटोप - विकटांस्तानथेो मुनिः ॥ चकार नकुलांस्तै, ते व्यांला जघ्निरे द्रुतम् ।। ३८ ।। ततः परिवाद् विदधे, मूषकान् दशनोद्यतान् ॥ रोहगुप्तविश्क्तैस्ते ऽप्योतुभिर्द्राग् निजक्षिरे || ३९ ॥ तीक्ष्णशृङ्गास्ततोऽमुञ्च - त्स परिव्राजको मृगान् । तेऽपि व्याघ्रः साधुमुक्ते निहता विलयं ययुः ॥४०॥ चकार शूकरान् सोऽथ, त्रिदण्डी चण्डष्ट्रिकान् || रोहगुप्तोऽपि तान् रुद्रैः, पारीन्द्रैद्रक् न्यवारयत् ॥ ४१ ॥ मुमोचाऽथ द्विकव्यूहान्, वज्रतुण्डां त्रिदण्डिकः ॥ तांश्च न्यषेधयद्विद्या - विहितैः कौशिकैर्ब्रती ॥ ४२ ॥ अतिदुष्टाः शकुनिका - स्ततः सांन्यासिकोऽमुचत् ॥ | श्येनैर्निरुचरीचक्रे, तांश्च साधुर्महाबलैः || ४३ || विद्यामिरामिस्तं जेतुं परिब्राद् नाऽशकद्यदा । तदा स मुमुचे विद्या-निर्मितां रासभी
१ धूर्ताप्रेसरः । २ गृहगोंधा 'गरोली' इति भा० । ३ मयूरान् । ४ शरीराभोगेन यमदण्डसदृशान् सर्पान् । ५ सर्पाः । ६ सिंहैः | ७ द्विकाः काकः ।
।। २२९॥