________________
उत्तराध्यपवस्त्रम् ॥२२७॥
चैत्याधिपः फणी ॥ २४ ॥ श्रीवीरेणाव समव-सृतेनेति प्ररूपितम् । एकैव वेद्यते जीव-रेकस्मिन् समये क्रिया ॥ २५ ॥ तकि त्वमधिकज्ञानो, जातो? वीरप्रभोरपि । यदन्यथा वचस्तस्य, कुरुषे दुष्ट शिष्य रे ! ॥ २६ ॥ मुश्च दुर्वासनामेना-मङ्गीकुरु विभोः
र अन्य
IPU२२७॥ बचः ॥ नो चेत्त्वां शिक्षयिष्यामि, मुद्रेणाऽभुनाऽधुना ॥ २७ ॥ प्रत्यक्षीभूय तेनैवं, शिक्षितो नागनाकिना ।। तत्सोऽङ्गीकृतवान् मिथ्या-दुम्कृतं मेऽस्त्विति ब्रुवन् ॥ २८ ॥ गङ्गदेव इति तेन भोगिना, बोधितः पुनरवाप्तबोधिकः ॥ गङ्गावारिविमलं दधद्वतं भूतले विहरति स्म पूर्ववत् ॥ २९ ॥ इति पञ्चमनिहवकथा ॥५॥
"चतुश्चत्वारिंशदाढयै-वर्षाणां पञ्चभिः शतैः ।। श्रीवीरमुक्तेर्जातस्य, षष्ठस्याथोच्यते कथा ॥१॥ तद्यथा-श्री अन्तरजिकापुर्या, बलश्रीरभवन्नृपः ॥ तिरस्कारी रिपुबल-श्रियां स्वीयबलश्रिया ॥२॥ तस्यां नगर्यामन्येद्य-श्चैत्ये भूतगुहाभिधे ॥ सगच्छाः समवासार्पः, श्रीगुप्ताह्वयसूरयः ॥ ३ ॥ इतश्चैको भूरिविद्या-बलाढ्यो गर्वपर्वतः ॥ परिबाडाययौ तस्यां, पुर्यामखिलशास्त्रवित् ॥ ४ ॥ लोहपट्टावद्धतुन्दो, जम्बूशाखां दधत् करे ॥ पुरे तत्राभ्रमल्लोकैः, पृष्टश्चैवमुवाच सः॥५॥ इदं तुन्दं महाविद्या सम्भारेणातिभूयसा ।। स्फुटतीति मया लोह-पट्टकेन निबध्यते ॥ ६॥ जम्बूद्वीपे च मे कोपि, प्रतिवादी न विद्यते ॥ इति सूचयितुं जम्बू-शाखाऽसौ ध्रियते मया ॥७॥ ततो लोकाः 'पोट्टसाल', इति नाम्ना तमूचिरे ॥ सोऽपि राजसभां गत्वा, बलश्रीनृपमित्यवक् ॥ ८॥ तव पुर्या भवेत्कोऽपि, यदि वादी तदा मया ॥ वादं कारय नो चेन्मे, जयढक्कां समर्पय ॥९॥ ता. दृशो वादिनोऽन्यस्या-भावामिविभुस्ततः ॥ विमनस्कोऽप्यदात्तस्मै, पटहं जयसूचकम् ॥ १० ॥ परप्रवादाः सर्वेऽपि, शून्या
। नाकी देवः । २ गाजलवधिर्मलमित्यर्थः ।